स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak

Scientific Name: Terminalia chebula

Hindi Name: पीला हरडा छिल्का - Peela Harada chilka

English Name: Yellow Myrobalan / Chebulic Myrobalan - Fruit shell

Category: Plant Parts

Sub-Category: फल त्वक् - Phala tvak - Epicarp

Out of Stock

Brief Description

Most extensively used Drug in Ayurveda. One among Triphala and having Very good body rejuvenation profile.

चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्| दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९||
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् | सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०||
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् |अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||
हृद्रोगं सशिरोरोगमतीसारमरोचकम् | कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् | श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः | स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||
अजीर्णिनो  रूक्षभुजः स्त्रीमद्यविषकर्शिताः| सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये||३५||
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि| यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः| हरीतकीनां शस्यानि भिषगामलकस्य च||३७||

आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)

यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति, तथाऽपि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्येते; तत्रापि यद्यपि आमलकं वयःस्थापनानाम् (सू.अ.२५) इत्युक्तम्, तथाऽपि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्यग्रेऽभिहिता| हरीतक्यादिषु पञ्चरसत्वाद्युत्पादोऽदृष्टवशाद्भूतसन्निवेशविशेषप्रभावकृतः; तेन नात्रोपपत्तयः क्रमन्ते| शिवामिति कल्याणकारिणीं, प्रशस्तगुणयुक्तत्वात्| सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना| सर्वरोगहरत्वमभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम्| प्रवर्तकत्वेऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं; यदुक्तं- स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते| अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् इति| बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम्| वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वमुक्तम्| शस्यानीति अस्थिरहितानि फलानि||२९-३७||

सुश्रुतसंहिता - सूत्रस्थानम् - ४६. अन्नपानविध्यध्यायः
हरीतकीगुणाः
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् |
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ||१९९||

निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)

हरीतकीमाह- व्रण्यमित्यादि| व्रणेभ्यो हितं व्रण्यम्| चक्षुषे हितं चक्षुष्यम्||१९९||
 

अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १३. अग्र्यसंग्रहणीयः

हरीतकी पथ्यानाम्

शशिलेखा व्याख्या (इन्दु कृत)

पथ्यं शरीरधात्वविपरीतम्|

अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १२. द्विविधौषधविज्ञानीयः

अष्टाङ्गहृदयम् - सूत्रस्थानम् - ६. अन्नस्वरूपविज्ञानीयाध्यायः
कषाया मधुरा पाके रूक्षा विलवणा लघुः| दीपनी पाचनी मेध्या वयसः स्थापनी परम्|
उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा | कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्|
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् | सशोषशोफातीसारमेहमोहवमिक्रिमीन्|
श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम् | विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्|
हरीतकरी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||२२||

शशिलेखा व्याख्या (इन्दु कृत)

हरीतकी कषायत्वादिगुणयुक्ता| विलवणा इति लवणरसवर्जिता| बलादुक्तं भवति पञ्चरसा इति| तत्रापि कषायोऽधिकः| सा हरीतकी कुष्ठादीनन्यांश्च रोगान् वातश्लेष्मोद्भवान् नाशयति||२२||

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

हरीतकी कषाया-कषायरसा| कषायरसत्वात्कटुविपाकित्वं प्राप्तमित्याह-मधुरा पाक इति| तथा, रूक्षा| विलवणेति वचनं लवणं वर्जयित्वा शेषाः पञ्चरसा अस्याः सन्तीति वेदयति| ननु, एवं कषायेत्यनर्थकम्, यतः पञ्चसु रसेषु लवणहीनेषु मध्ये कषायोऽनुप्रविष्ट एव| अस्त्येवैतत्| कषायेत्येतदतिशयख्यापनाय, कषायो रसोऽस्यां बाहुल्येनास्तीत्यर्थः| तथा च मुनिः (च.चि.अ.१|२९)-हरीतकीं पञ्चरसामुष्णां विलवणां शिवाम्| इति| तथा, लघु| दीपनी-अग्रेः| पाचनी-आमादेः| मेध्या-मेधायै हिता| वयस इत्यादि,- कालकृता शरीरावस्था यौवनादिर्वयस्तस्य, परं-अतिशयेन, स्थापनी-स्थिरीकरणी| उष्णेत्येतावतैवोष्णवीर्येत्यस्यार्थस्य लब्धत्वात् वीर्यग्रहणमतिशयोष्णवीर्यत्वख्यापनार्थम्| सरा- भेदनी| तथा, आयुषे हिता| बुद्धिः-वर्तमानार्थग्राहिणी प्रज्ञा, इन्द्रियाणि-चक्षुरादीनि, तेषां बलं प्रददाति या सैवम्| कुष्ठादीन् रोगान् जयति| खरनादे त्वेवमभ्यधायि-स्वाद्वम्लभावात्पवनं, कटुतिक्ततया कफम्| कषायमधुरत्वाच्च पित्तं हन्ति हरीतकी|| इति|

आयुर्वेदरसायनम् व्याख्या 

हरीतकीगुणानाह-कषायेति| कषायेति पञ्चरसत्वेऽप्यतिशयार्थम्| विलवणा-स्वाद्वम्लकटुकषायतिक्तरसेत्यर्थः| बुद्धेरिन्द्रियाणां च बलप्रदा| पुराणज्वरो-जीर्णज्वरः| शोषो-राजयक्ष्मा| मोहो-मूर्च्छा| स्रोतसां विबन्धः-स्रोतोरोधः| कफवातजानिति कुष्ठादीनां विशेषणम्| तांस्तांश्चेतिअन्येषामप्येवंप्रकारणामानुलोम्यादिसाध्यानां ग्रहणार्थम्| ननु, स्वाद्वम्लभावात्पवनं, कटुतिक्ततया कफम्| कषायमधुरत्वाच्च पित्तं हन्ति हरीतकी|| इति खारणादिना पित्तघ्नत्वमप्युक्तम्| तत्किमिति कफवातयोर्ग्रहणम्| सत्यम्| पित्तजानपि व्याधीन् जयेत्, कफवातजांस्त्वतिशयेन, उष्णवीर्यत्वात्| खारणादिना हरीतकीलक्षणमुप्युक्तम्क्षि प्ताऽम्भसि निमज्जेद्या गुणकृत्सा प्रकीर्तिता| इति|

अभिधानमञ्जरी मदनादिगणवर्ग - १७. वरणादिवर्ग

विजया हरीतकी स्यादभया पथ्याऽव्यथा प्रपथ्या च | अमृता जया कयस्था हैमवती चेतकी शिवा साध्वी |
प्राणदा मानवी पथ्या पञ्चभद्रिका | पिशाची पूतना चेति पर्यायैर्भद्रसप्तिका ||२४३||
ज्ञेयो हरीतकीगन्धवासितश्चोत्कटो मुदित ऊह्यः |सुरवृक्षः सूर्याह्निः सुपर्णपुष्पः शीतपुष्प इति ||२४४||

कैयदेवनिघण्टु - १. ओषधिवर्ग

हरीतक्यभया पथ्या प्रपथ्या हैमवत्यपि ||२२१||

कायस्था श्रेयसी ज्ञेया प्राणदा विजया शिवा | जया विलवणा पञ्चरसानु तुवरोत्करा ||२२२||
स्वादुपाकरसायुष्या रूक्षोष्णा बृंहणी लघुः | दीपनी पाचनी मेध्या वयसःस्थापनी परम् ||२२३||
रसायनी च चक्षुष्या बलबुद्धिस्मृतिप्रदा |कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् ||२२४||
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् |सशोषशोफातीसारमेहमोहवमिकृमीन् ||२२५||
श्वासकासप्रसेकार्शःप्लीहानाहगदोदरान् | विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||२२६||
हिध्माध्मानव्रणान् शूलं त्रीन् दोषांश्च व्यपोहति |स्वाद्वम्लभावात्पवनं कटुतिक्ततया कफम् ||२२७||
कषायमधुसत्त्वाच्च पित्तं हन्ति हरीतकी |मज्जवक्स्नायुमांसास्थिस्थिताः पञ्चाभयोद्भवाः ||२२८||
स्वादुकट्वम्लतिक्ताख्यकषायाः क्रमशो रसाः |पथ्यामज्जा च चक्षुष्यो वातपित्तहरो गुरुः ||२२९||
नीरजा वनजा चैव पर्वतीया इति त्रिधा |यथोतरं पथ्यतमा विज्ञेया त्रिविधाभया ||२३०||
कालयोगात्स्वयं पक्वा पतिता च महीतले |नवा स्निधायता वृत्ता गुर्वी क्षिप्ता तथाम्भसि ||२३१||
निमज्जेद्या तथैकस्मिन् फले स्याच्च द्विकर्षता |सर्वदा गुणकृत्सा तु ततोऽन्या तु विवर्जिता ||२३२||
नवादिगुणयुक्तत्वं तथैकत्वं द्विकर्षता |हरीतक्याः फले यत्र तत्सर्वं गुणकृद् भवेत् ||१३३||
जन्तुजग्धा दवादग्धां जले पङ्के स्थितां पुनः |ऊषरे च स्थितां भिन्नां वर्जयेत्तु हरीतकीम् ||२३४||

 

अभिधानरत्नमाला - ६. कषायस्कन्ध

पथ्याभयाव्यथाऽमोघा विजयापूतनाशिवा | प्राणदा रेचनी चैवसामृता चा हरीतकी ||१९||   

द्रव्यगुणसङ्ग्रह - ५. फलवर्ग

पथ्या पञ्चरसाऽऽयुष्या चक्षुष्याऽलवणा सरा ||३७||
मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा |३८|

द्रव्यगुणसङ्ग्रहटीका व्याख्या (श्रीशिवदाससेन कृत)

हरीतकीगुणानाह– पथ्येत्यादि| अलवणा सती पञ्चरसा इत्यर्थः||३७-३८||

 

धन्वन्तरिनिघण्टु - १. गुडूच्यादिवर्ग

हरीतक्याभया पथ्या प्रपथ्या पूतनाऽमृता | जयाऽव्यथा हैमवती वयःस्था चेतकी शिवा ||२३३||
प्राणदा नन्दिनी चैव रोहिणी विजया च सा |कषायाऽम्ला च कटुका तिक्ता मधुरसान्विता |
इति पञ्चरसा पथ्या लवणेन विवर्जिता ||२३४||
अम्लभावाज्जयेद्वातं पित्तं मधुरतिक्तकात् | कफं रूक्षकषायत्वात्त्रिदोषघ्नी ततोऽभया ||२३५||
प्रपथ्या लेखनी लघ्वी मेध्या चक्षुर्हिता सदा | मेहकुष्ठव्रणच्छर्दिशोफवातास्रकृच्छ्रजित् ||२३६||
वातानुलोमनी हृद्या सेन्द्रियाणां प्रसादनी | सन्तर्पणकृतान्रोगान्प्रायो हन्ति हरीतकी ||२३७||
तृष्णायां मुखशोषे च हनुस्तम्भे गलग्रहे | नवज्वरे तथा क्षीणे गर्भिण्यां न प्रशस्यते ||२३८||
हरस्य भवने जाता हरीता च स्वभावतः | सर्वरोगांश्च च हरते तेन ख्याता हरीतकी ||२३९||

निघण्टुशेष - १. वृक्षकाण्ड

हरीतक्यां जया पथ्या हैमवत्यभयाऽमृता ||८०|| कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा |८१|

निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)

हरति रोगान् हरीतकी, हृ-रुहि-पिण्डिभ्य ईतकः [हैमोणादिसू. ७९] इतीतकः, स्त्रीलिङ्गः|

हरस्य भु(?भ)वने जाता हरिता च स्वभावतः|सर्वरोगांश्च हरते तेनाऽऽख्याता हरीतकी||  इति,
तस्याम्| जयति रोगान् जया| पथि साधुः पथ्या, हितेत्यर्थः, “तत्र साधौ” [सिद्ध. ७.१.१५] इति यः| हिमवत इयं हैमवती, “तस्येदम्” [सिद्ध. ६.३.१६०] इत्यण्| नास्ति भयमस्या अभया| यदाह–

अम्लभावाज्जयेद् वातं पित्तं मधुर-तिक्ततः| कफं रूक्ष-कषायत्वात् त्रिदोषघ्नी ततोऽभया||  इति|

अत एव नास्ति मृतमस्या अस्यां वा अमृता||८०||

काये तिष्ठति-निष्फला न भवति कायस्था, स्था-पा-स्ना-त्रः कः [सिद्ध. ५.१.१४२] इति कः| वयःस्थेत्येके| पूतं करोति पूतना, विरेचनीत्वात्| पृतनेत्येके| चितिण् संवेदने चेतयते स्रोतःशुद्धेः चेतकी, कीचक-पेचक- [हैमोणादिसू. ३३] इत्यके साधुः| न व्यथयति अव्यथा| अतिशयेन प्रशस्या श्रेयसी, गुणाङ्गाद्वेष्ठेयसू [सिद्ध. ७.३.९] इति ईयसौ प्रशस्यस्य श्रः [सिद्ध. ७.४.३४] इति श्रादेशः| शेरते रोगा अनया शिवा, शीङापो ह्रस्वश्च वा [हैमोणादिसू. ५०६] इति वः दीर्घस्य ह्रस्वश्च| आह च–
हरीतक्यभया पथ्या प्रपथ्या पूतनाऽमृता| जयाऽव्यथा हैमवती कायस्था चेतकीति च|| इति|

एतस्या लोके हरड-इ इति प्रसिद्धिः|

भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - १. मिश्रवर्ग
अनुलोमन
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत् | तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी ||२२३||

रसायन
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम् | यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु ||२३७||

भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - २. हरीतक्यादिवर्ग

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः | कुतो हरीतकी जाता तस्यास्तु कति जातयः ||१||
रसाः कति समाख्याताः कति चोपरसाः स्मृताः | नामानि कति चोक्तानि किं वा तासां च लक्षणम् ||२||
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते | केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ||३||
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि | अश्विनीर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ||४||
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् | ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ||५||

हरीतकीपर्याय
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता | हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा |
वयस्था विजया चापि जीवन्ती रोहिणीति च ||६||

हरीतकी सप्तभेद
विजया रोहिणी चैव पूतना चामृताऽभया | जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ||७||
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना | सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिस्थानके |
चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये | जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः३० ||७||
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता | पूतनास्थिमती सूक्ष्मा कथिता मांसलाऽमृता ||८||
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी | त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ||९||

हरीतकीप्रयोग
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी | प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ||१०||
अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् | चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ||११||
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः | षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ||१२||
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् | काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्धा भेदयेच्छिवा ||१३||
चेतकीपादपच्छायामुपसर्पन्ति ये नराः | भिद्यंते तत्क्षणादेव पशुपक्षिमृगादयः ||१४||
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः | तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ||१५||
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् | चेतकी परमा शस्ता हिता सुखविरेचनी ||१६||
सप्तानामपि जातीनां प्रधाना विजया स्मृता | सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ||१७||

हरीतकीगुण, प्रभाव
हरीतकी पञ्चरसाऽलवणा तुवरा परम् |

रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी | चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी ||१८||
श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् |वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ||१९||
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् | कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा |
अश्मरीमूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ||२०||
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा | कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ||२१||
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा | प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते |
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ||२२||
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः | यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ||२३||
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः | वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः ||२४||

श्रेष्ठहरीतकीलक्षण
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि | निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा ||२५||
नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता | हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ||२६||

हरीतकीप्रयोगविधि,

चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी |
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ||२७||
उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् |
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ||२८||
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् | हरीतकी हरत्याशु भुक्तस्योपरि योजिता ||२९||
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा |घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ||३०||

 

ऋत्वनुसार प्रयोगविधि

सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् |वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ||३१||

हरीतकीसेवनाऽनार्ह
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च |
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ||३२||

भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - २३. इक्षुवर्ग
अनुपानभेदेन गुडगुण
श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीतकीभिः |
शुण्ठ्या समं हरति वातमशेषमित्थं दोषत्रयक्षयकराय नमो गुडाय ||२९||

मदनपालनिघण्टु - १. अभयादिवर्ग

हरस्य भवने जाता हरिता च स्वभावतः | हारयेत्सर्वरोगाञ्च तेन प्रोक्ता हरीतकी ||८||
जीवन्ती पूतना पश्चादमृता विजयाऽभया | रोहिणी चेतकी सप्त भेदभिन्ना हरीतकी ||९||
जीवन्ती जीवनोद्योगात्पावनात्पूतना मता | सुधावदमृता ज्ञेया विजया विजयप्रदा ||१०||
नृणामभयदा यस्मादभया तत् प्रकीर्तिता | रोहिणी तु गुणारोहाच्चेतनाच्चेतकी मता ||११||
जीवन्ती स्वर्णवर्णाभा पूतनाऽस्थिमती मता | अमृता त्रिदला प्रोक्ता विजया तुम्बरूपिणी ||१२||
पञ्चाङ्गी त्वभया ज्ञेयाऽमृता वृत्ता तु रोहिणी | त्र्यङ्गी तु चेतकी ज्ञेया कर्म तासामथोच्यते ||१३||
सर्वरोगेषु जीवन्ती प्रलेपे पूतना हिता | शुद्ध्यर्थममृता प्रोक्ता विजया सर्वरोगहृत् ||१४||
अक्षिरोगेऽभया शस्ता रोहिणी व्रणरोहिणी | चेतकी चूर्णयोगे स्यात्सप्तधैव प्रकीर्तिता ||१५||
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि | निमज्जेत्सा प्रशस्ता स्याद्रोगध्न्यतिगुणप्रदा ||१६||
शोणा च्छिन्ना गुडनिभा किञ्चिदल्पा कषायिणी | स्थूलत्वक् सरसा स्वल्पबीजा गुर्वी हरीतकी ||१७||
चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी | स्विन्ना सङ्ग्राहिणी प्रोक्ता भृष्टा पथ्यान्नदोषनुत् ||१८||
ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावृते ह्यम्बरे तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे |
पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां राजन् प्राप्य हरीतकीमिव रुजो नश्यन्तु ते शत्रवः ||१९||

हरीतकीनामगुण
शिवा हरीतकी पथ्या चेतकी विजया जया |प्रपथ्या प्रथमाऽमोघा कायस्था प्राणदाऽमृता ||२०||
जीवनीया हेमवती पूतना वृतनाऽभया | वयस्था नन्दिनी ज्ञेया श्रेयसी रोहिणी तथा ||२१||
हरीतकी पञ्चरसाऽलवणा तुवरोत्कटा | रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ||२२||
सरा बुद्धिप्रदायुख्या चक्षुष्या बृंहणी लघुः | श्वासकासप्रमेहार्शः कुष्ठशोफोदरान् कृमीन् ||२३||
वैस्वर्यग्रहणीदोषविबन्धविषमज्वरान् | गुल्माध्मानव्रणच्छर्दिहिध्माकण्डूहृदामयान् |
कामलां शूलमानाहं प्लीहानं चापकर्षति ||२४||

मधुराम्लतया वातं कषायस्वादुभावतः | पित्तं हन्ति कफं हन्ति कटुत्वेन हरीतकी ||२५||

 

 

मदनादिनिघण्टु - २. द्वितीयगण

हरीतक्यभया पथ्या प्राणदा विजया शिवा | अव्यथा पूतनाऽमोघा चेतकी प्रमथाऽमृता ||७||
कफवातप्रशमनी रेचनी दीपनी लघुः | अर्शोगुल्महितारुच्या जठरघ्नी हरीतकी ||८||

माधवद्रव्यगुण - १. विविधौषधिवर्ग

शिवा पञ्चरसायुष्या चक्षुष्या लवणा सरा | मेध्योष्णा दीपनी दोषशोथकुष्ठव्रणापहा ||७||
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् | विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ||८||
हरीतकी हरेद् व्याधींस्तांस्तांश्च कफवातजान् |

माधवद्रव्यगुण - २८. अनुपानविधि

अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् | हरीतकी हरत्याशु भुक्तस्योपरि योजिता ||२४||

राजनिघण्टु - ११. आम्रादिवर्ग

हरीतकी हैमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी |
पथ्या प्रपथ्याऽपि च पूतनाऽमृता जीवप्रिया जीवनिका भिषग्वरा ||२१४||
जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा | देवी दिव्या च विजया वह्निनेत्रमिताभिधा ||२१५||
हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता | रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ||२१६||
बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या | मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ||२१७||
हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता | तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमम् ||२१८||
विजया रोहिणी चैव पूतना चामृताऽभया | जीवन्ती चेतनी चेति नाम्ना सप्तविधा मता ||२१९||
अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता | स्वल्पत्वक् पूतना ज्ञेया स्थूलमांसाऽमृता स्मृता ||२२०||
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् | त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ||२२१||
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके |
चम्पायाममृताऽभया च जनिता देशे सुराष्ट्राह्वये जीवन्ती च हरीतकी निगदिता सप्तप्रभेदा बुधैः ||२२२||
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता | विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ||२२३||
स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीमभयां वदन्ति | इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ||२२४||
चेतकी च धृता हस्ते यावत् तिष्ठति देहिनः | तावद्विरेचते वेगात्तत्प्रभावान्न संशयः ||२२५||
सप्तानामपि जातीनां प्रधानं विजया स्मृता | सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ||२२६||
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः | यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ||२२७||
हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः | हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ||२२८||
हरीतकी तु तृष्णायां हनुस्तम्भे ग्रलग्रहे | शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते  ||२२९||

राजवल्लभनिघण्टु - ३. माध्याह्निकपरिच्छेद

सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः | अलाबुवृन्ता विजया पञ्चाशा चाभया स्मृता ||१९८||
स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता | त्र्यंशा च कालिकेत्येवं सप्तजातिहरीतकी ||१९९||

हरीतकी निरुक्ती
हरस्य भवने जाता हरिता च स्वभावतः | हरते सर्वरोगांश्च तेन नाम्ना हरीतकी ||२०२||

  

सरस्वतीनिघण्टु - १. महावृक्षवर्ग

अभयात्वव्यथा पथ्या वयःस्था पूतनाऽमृता ||३७||
हरीतकी हैमवती चेतकी श्रेयसी शिवा | प्राणदा विजया श्रेष्ठा कायस्था दीपनी वरा ||३८||

सोढलनिघण्टु - गुणसङ्ग्रह (द्वितीय भाग) - १. गुडूच्यादिवर्ग

विजया रोहिणी चैव पूतना चामृता तथा ||२०४||
चेतकी चाभया प्रोक्ता जीवन्ती सप्तयोनयः | अलाबुवृत्ता विजया त्वव्यक्ता चैव रोहिणी ||२०५||
पूतनास्थिमती श्लक्ष्णा स्थूलमांसा तथामृता | त्र्यस्रा तु चेतकी ज्ञेया पञ्चास्रा त्वभया स्मृता ||२०६||
सुवर्णवर्णा जीवन्ती सप्तानामपि लक्षणम् | सर्वप्रयोगे विजया रोहिणी क्षतरोहिणी ||२०७||
लेपार्थे पूतनां विद्युर्विरेकार्थेऽमृतां विदुः | चेतनी सर्वरोगेषु यथार्हमुपकल्पयेत् ||२०८||
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या | परीक्ष्य यत्नतो धीमान् गुणकृत्सा प्रशस्यते ||२०९||
चेतकी द्विविधा प्रोक्ता कृष्णा शुक्ला च वर्णतः | षडङ्गुलायता कृष्णा शुक्ला चैकाङ्गुला मता ||२१०||
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् | काचित्स्पर्शेन दृष्ट्यान्या सैव चोक्ता चतुर्विधा ||२११||
चेतकीपादपच्छायामुपसर्पन्ति ये नराः | भिन्द्यते तत्क्षणादेव पशुपक्षिमृगास्तथा ||२१२||
चेतकी तु धृता हस्ते यावत्तिष्ठन्ति देहिनः | तावद्भिद्येत वेगैश्च प्रभावान्नात्र संशयः ||२१३||
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् | चेतकी परमा शस्ता हिता सुखविरेचनी ||२१४||
हरीतकी रसाः पञ्च विद्याल्लवणवर्जिताः | मज्जाश्रितं तु मधुरमम्लं स्नाय्वाश्रितं विदुः ||२१५||
त्वगाश्रितं तु कटुकं तिक्तं वृन्ताश्रितं तथा | अस्थ्याश्रितं कषायं तु रसमाहुर्मनीषिणः ||२१६||
कफं कटुकषायत्वादम्लत्वान्मारुतं जयेत् | पित्तघ्नी स्वादुतिक्तत्वात् रौक्ष्यादामविपाचिनी ||२१७||
विपाकमधुरा मेध्या वयःस्थापनदीपनी | उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ||२१८||
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् | शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ||२१९||
सशोषशोफातीसारमेहमोहवमिकृमीन् |श्वासकासप्रसेकार्शःप्लीहानाहगरोदरान् ||२२०||
विबन्धं स्रोतसां गुल्ममूरुस्तभमरोचकम् |हरीतकी जयेद्व्याधीन् तांस्तांस्तु कफवातजान् ||२२१||
तृष्णायां कण्ठशोषे च हनुस्तम्भे गलग्रहे |नवज्वरे वपुःक्षीणे गर्भिण्यां नैव शस्यते ||२२२||

 

 

 

Tannin
Gallic Acid
Shikimic Acid
Triacontanoic Acid
Palmitic Acid
Beta-sitosterol
Daucosterol
Triethyl ester of chebulic acid
Ethyl ester of gallic acid
Ellagitannins
Terchebulin
Punicalagin
Teaflavin
Triterpene
Chebupentol
Arjungenin
Terminoic acid
Arjunolic acid
Phloroglucinol
Pyrogallol
Sl.No Raw Material Variant Ratio Quantity Required for 1000g Unit
modal-content
Rasaमधुर - Madhura - Sweet
अम्ल - Amla - Sour
कषाय - Kashaya - Astringent
कटु - Katu - Pungent
तिक्त - Tikta - Bitter
Gunaलघु गुणम् - Laghu Gunam - Drug property which induces lightness to body
उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat
तीक्ष्णम् - Tikshnam - Drug action which irritates body by its Pungent quality
रूक्ष गुणम् - Ruksha Gunam - Drug action which imparts dryness
श्लक्ष्ण गुणम् - Shlakshna Gunam - Drug property which imparts smoothness
द्रव गुणम् - Dravagunam - Drug action which imparts liquid state
मृदु गुणम् - Mrudu Gunam - Drug action which imparts softness
सर गुण - Saraguna - Drug action which imparts movement
सूक्ष्म गुणम् - Sukshma Gunam - Drug property by virtue of which molecules of drug can eneter into minutetst spaces of body
विशद गुणम् - Vishada Gunam - Drug action which cleanses the body
VeeryaUshna veerya
VipakaMadhura
Prabhavaरसायनम् - Rasayana - Drug action which prevents old age and prolongs life with proper nourishment to the body
Anupanamरोगोपशमन अनुपानम् - Anupana according to the diseases.
Sl.No. Disease Factor Name of the combination Form of the combination Reference Combination products Procedure
1 अनुलोमनम् (Anulomanam - Drug action which destroys obstruction and allows flow of Dosha, Dhatu and mala) स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः 1) जलम् - Jalam
Boiled with Water and consumed
2 माङ्गल्य कारकम्/माङ्गल्यम्/भाग्यकारक (Mangalyakarakam/Mangalyam- Auspicious, indicative of good fortune) स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः
3 दीपनम् - Deepanam - Eupeptic / Appetizer / stomachic / Metabolic rate accelerator स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः
4 दीपनपाचनम् - Deepanapachanam - Drug action which amplifies metabolism and scavenges metabolic wastes स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः
5 पाचन / आमपाचनम् - Pachanam / Amapachanam) स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः
6 दोष पाचनम् - Dosha Pachanam स्वर्णवर्ण हरीतकी फल त्वक् / जीवन्ती हरीतकी फल त्वक् - Svarnavarna Haritaki Phala Tvak / Jivanti haritaki Phala Tvak फल त्वक् - Phala tvak - Epicarp चरक संहिता - चिकित्सास्थानम् - १/१. अभयामलकीयरसायनपादः
7 बुद्धि वर्धनम् - Buddhi vardhanam - Pharmacological action which improves the sense of judgement and analysis महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
8 चातुर्थिक ज्वरम् - Chaturthika jvaram - Disease spectrum associated with Quartan fever. महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
9 भूतग्रहम् / भूतोन्मादम् / आधिज उन्मादम् / आगन्तुज उन्मादम् - Bhutagraham / Bhutonmadam / Adhija Unmadam / Agantuja Unmadam - Altered mental health or altered personality enforced due to supernatural spirits महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
10 अपस्मार (Apasmara, seizure diseases with alte महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
11 उन्मादम् - Unmadam - Disease spectrum with altered mental health of a person महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
12 बालाङ्गवर्धनम् - Balangavardhanam - Medicine which promotes the all round growth of Child महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
13 स्मृतिकरम् - Smrutikaram - Memory enhancer महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
14 बुद्धिमान्द्यता - Buddhimandyata - Mental retardation / Intellectual disability महापैशाचिक घृतम् - Mahapaishachika Ghrutam फल त्वक् - Phala tvak - Epicarp चरकसंहिता - चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्  उत्तम मात्रा स्नेहपानम् - Giving Large amount of Ghee which digests at 24 hours
Disease Factors
Serial Number Title Result
1 Antioxidant Effects of Aqueous Extract of Terminalia chebula in Vivo and in Vitro Both treatment and pretreatment of the hepatocytes with the T. chebula extract (TCE) significantly reversed the t-BHP-induced cell cytotoxicity and lactate dehydrogenase leakage. In addition, TCE exhibited in vitro ferric-reducing antioxidant activity and 2,2-diphenyl-1-picryhydrazyl free radical-scavenging activities.
2 Potential of the aqueous extract of Terminalia chebula as an anticaries agent The aqueous extract from Terminalia chebula was tested for its ability to inhibit the growth and some physiological functions of Streptococcus mutans. The extract strongly inhibited the growth, sucrose induced adherence and glucan induced aggregation of S. mutans. Mouthrinsing with a 10% solution of the extract inhibited the salivary bacterial count and salivary glycolysis. Mouthrinsing with the extract significantly reduced total bacterial counts and the total streptococcal counts in the saliva samples obtained up to and including 3 h after rinsing, compared with the counts obtained prerinsing or after placebo rinsing. The extract successfully inhibited glycolysis of salivary bacteria for up to 90 min postrinsing.
3 Studies on the aqueous extract of Terminalia chebula as a potent antioxidant and a probable radioprotector The extract inhibits xanthine/xanthine oxidase activity and is also an excellent scavenger of DPPH radicals. The rate at which the extract and its constituents scavenge the DPPH radical was studied by using stopped-flow kinetic spectrometer. Based on all these results it is concluded that the aqueous extract of T. chebula acts as a potent antioxidant and since it is able to protect cellular organelles from the radiation-induced damage, it may be considered as a probable radioprotector.
4 Influence of Terminalia chebula on dermal wound healing in rats The effects of topical administration of an alcohol extract of the leaves of an evergreen plant, Terminalia chebula, on the healing of rat dermal wounds, in vivo, was assessed. T. chebula treated wounds healed much faster as indicated by improved rates of contraction and a decreased period of epithelialization. Biochemical studies revealed a significant increase in total protein, DNA and collagen contents in the granulation tissues of treated wounds. The levels of hexosamine and uronic acid in these tissues, also increased up to day 8 post-wounding. Reduced lipid peroxide levels in treated wounds, as well as ESR measurement of antioxidant activity by DPPH radical quenching, suggested that T. chebula possessed antioxidant activities. The tensile strength of tissues from extract-treated incision wounds increased by about 40%. In addition, T. chebula possessed antimicrobial activity and was active largely against Staphylococcus aureus and Klebsiella. These results strongly document the beneficial effects of T. chebula in the acceleration of the healing process. Copyright © 2002 John Wiley & Sons, Ltd.
5 Inhibition of cancer cell growth by crude extract and the phenolics of Terminalia chebula retz. fruit A 70% methanol extract of Terminalia chebula fruit, was studied for its effects on growth in several malignant cell lines including a human (MCF-7) and mouse (S115) breast cancer cell line, a human osteosarcoma cell line (HOS-1), a human prostate cancer cell line (PC-3) and a non-tumorigenic, immortalized human prostate cell line (PNT1A) using assays for proliferation ([3H]-thymidine incorporation and coulter counting), cell viability (ATP determination) and cell death (flow cytometry and Hoechst DNA staining). In all cell lines studied, the extract decreased cell viability, inhibited cell proliferation, and induced cell death in a dose dependent manner. Flow cytometry and other analyses showed that some apoptosis was induced by the extract at lower concentrations, but at higher concentrations, necrosis was the major mechanism of cell death. ATP assay guided chromatographic fractionation of the extract yielded ellagic acid, 2,4-chebulyl-β-d-glucopyranose (a new natural product), and chebulinic acid which were tested by ATP assay on HOS-1 cell line in comparison to three known antigrowth phenolics of Terminalia, gallic acid, ethyl gallate, luteolin, and tannic acid. Chebulinic acid (IC50=53.2 μM±0.16)>tannic acid (IC50=59.0 μg/ml±0.19)> and ellagic acid (IC50=78.5 μM±0.24), were the most growth inhibitory phenolics of T. chebula fruit in our study.
6 Antimicrobial activity of Terminalia chebula Terminalia chebula is a popular medicinal plant according to Ayurveda for its broad spectrum medicinal value including in the treatment of enteric disorders. Leaf extracts in water as well as in various organic solvents (namely methanol, ethanol, ethyl acetate and chloroform) were analyzed to testify its antibacterial activities against four different bacteria causing enteric disorders, viz. Escherichia coli, Salmonella sp, Shigella sp and Vibrio cholerae in vitro along with Saccharomyces cerevisiae. The analysis was carried out by taking the extracts at a concentration of 10 mg/ml and their activities were recorded by estimating zones of inhibition as produced by disc-diffusion method on Mueller-Hinton agar media. While all the organisms were resistant to chloroform extract and some of them to that of ethyl acetate, the methanol as well as the aqueous extracts of the plant showed the potential bactericidal activity, however nothing was evident against the yeast candidate. When compared with the traditional antibiotics, this activity was especially competent against Escherichia coli and Shigella sp, followed by Vibrio sp. and Salmonella spp. The broth dilution assay revealed that the bactericidal values fall in the range of 5000 to 8000 µg/ml.
7 Anti-Diabetic Activity of Fruits of Terminalia chebula on Streptozotocin Induced Diabetic Rats The present study was aimed to evaluate the anti-diabetic potential of Terminalia chebula (T. chebula) fruits on streptozotocin (STZ)-induced experimental diabetes in rats. Oral administration of ethanolic extract of the fruits (200 mg/kg body weight/rat/day) for 30 days significantly reduced the levels of blood glucose and glycosylated hemoglobin in diabetic rats. Determination of plasma insulin levels revealed the insulin stimulating action of the fruit extract. Also, the alterations observed in the activities of carbohydrate and glycogen metabolising enzymes were reverted back to near normal after 30 days of treatment with the extract. Electron microscopic studies showed significant morphological changes in the mitochondria and endoplasmic reticulum of pancreatic β cells of STZ-induced diabetic rats. Also, a decrease in the number of secretory granules of β-cells was observed in the STZ-induced diabetic rats and a these pathological abnormalities were normalized after treatment with T. chebula extract. The efficacy of the fruit extract was comparable with glibenclamide, a well known hypoglycemic drug.
8 https://scholar.google.co.in/scholar?start=0&q=research+paper+regarding+terminalia+chebula&hl=en&as_sdt=0,5&as_vis=1 Various Researches
Type Operator Value Unit Frequency Duration Comment
Adult Dosage सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder <= 6 g 1 times / day 365 days
Child Dosage सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder <= 3 g 1 times / day 365 days
1

Basic Information

2

Main Complaints

3

History

4

General Examination

5

Systemic Examination

6

Ayurved


Respiratory System

1. Inspection
2. Palpation
4. Auscultation

Cardiovascular System

1. Inspection
2. Palpation
4. Auscultation

Gastrointestinal System

1. Inspection
4. Auscultation
5. Per rectal and perianal Examination
6. Endoscopic Findings
7. Colonoscopy Findings
8. MRCP Findings

Central Nervous System

1. Higher Mental function
2. Cranial Nerves
3. Motor System
4. Sensory System

Musculoskeletal System

1. Inspection
3. Special Tests

Integumentary System – Skin and Appendages

1. Inspection
2. Palpation
3. Special Tests

The visual system

Inspection of the eyes
Intra ophthalmic Pressure
Visual acuity
Visual Field
Refractive errors
Ophthalmoscopic examination

The ear

Inspection
Palpation
Otoscopic Examination
Hearing Tests
Vestibular Function Tests
Audiogram

The nose

Inspection
Palpation

The Reproductive System

1. Female Reproductive System
Breast
Inspection
Palpation
External genitalia and vagina and Cervix
Inspection
Palpation
Menstrual History
2. Obstetric Examination
3. Male Reproductive System
Inspection
Palpation

Lab Tests

Imaging studies

Biopsy / FNAC and other histopathological studies

Diagnosis

Disease Scores

Complications

Prognosis

Ashtasthana pareeksha – अष्टस्थान परीक्षा

दशविध परीक्षा – Dashvidha pariksha


Treatments

Results

1. Patient Name -
2. Diagnosis -
Parameters Ayurvedic Part Symptoms Signs Complications Lab tests Imaging Studies Disease Scores Prognosis Action
Before Treatment
After 15 Days

Company

Wholesaler of rock sugar, dry fruits & raw herbs in Udupi, Karnataka.

+91 9964584293
anaamayaherbals@gmail.com

Address

Udupi sweets building,
Opposite to mother of sorrows Church,
K M marga, Udupi,
Karnataka 576101

© Anaamaya Herbals 2026

Glowing
Pay