Brief Description
वज्रीक्षीरं रविक्षीरं द्रवं धत्तूरचित्रजम् ॥ १८५॥
महिषीविड्भवं द्रावं सर्वांशं तिलतैलकम् । पचेत्तैलावशेषं च गोमूत्रेऽथ चतुर्गुणे ॥ १८६॥
तैलावशेषं पक्त्वा च तत्तैलं प्रस्थमात्रकम् । गन्धकाग्निशिलातालं विडङ्गाति विषाविषम् ॥१८७॥ तिक्तकोशातकीकुष्ठवचामांसीकटुत्रयम् । पीतदारु च यष्ट्याह्वं स्वर्जिकाक्षारजीरकम् ॥१८८॥
देवदारु च कर्षांशं चूर्णं तैले विनिक्षिपेत् । वज्रतैलमिदं ख्यातमभ्यङ्गात्सर्वकुष्ठनुत् ॥ १८९॥
दी-अधुना वज्रीतैलमाह-वज्रीति । वज्री सेहुण्डस्तस्य क्षीरं दुग्धं रविक्षीरमित्यर्कदुग्धं धत्तूरकचित्रकपत्रयोर्द्रवं स्वरसमित्यर्थः । महिषीविड्भवं द्रावं महिषीशकृत्स्वरसम् । सर्वांशं तिलतैलकमिति सर्वं वज्रीक्षीरादि पञ्चद्रवं तस्यांशं चतुर्थांशं भागं तत्सममिति तैलमित्यर्थः । एके सर्वांशं तैलमित्यनेन सर्वपञ्चद्रव्यसाम्यं तैलमिति वदन्ति, एतन्न प्रचरति यतः पञ्चद्रवत्वेन प्रत्येकं तैलसममाहुः । तथाचोक्तमत्रैव परिभाषायाम् 'द्रवाणि यत्र स्नेहेषु पञ्चादीनि' इत्यादिवाक्यम् । पुनरपि तद्गोमूत्रचतुर्गुणेन पक्त्वा तैलावशेषं प्रस्थमात्रं गृहीत्वा वक्ष्यमाणद्रव्याणां प्रत्येकं कर्षप्रमितानां चूर्णं तत्तैले मिश्रयित्वा स्वनुगुप्तं धारयेत् । गोमूत्रं पृथगुक्तत्वाच्चतुर्गुणम्। चूर्णद्रव्याण्याह-तत्राग्निर्भल्लातकः, चित्रकजटा वा, शिला मनःशिला, तालं हरितालं, विषं प्रसिद्धं, तिक्तकोशातकी कटुकोशातकीफलमिति, मांसी जटाख्या, कटुत्रयं त्रिकटुकं, पीतदारु दारुहरिद्रा, यष्ट्याह्नं मधुयष्टी, स्वजिंकाक्षारं प्रसिद्धं तत्तेषां चूर्णार्थं द्रव्याणामपि कल्कमाहुरेके सर्वकुष्ठनुदिति । सर्वकुष्ठम् अष्टादशप्रकारम् ॥ ॥ १८५-१८९ ॥
गू०-वज्रीक्षीरं, रविरर्कस्तस्य क्षीरं, द्रवं तज्जलं, धतूरपत्रखरसः, चित्रकस्वरसश्च, महिषीविड्द्रवं, तिलतैलकं सर्वांशं सर्वसमं, गोमूत्रं चतुर्गुणं तैलात् । तत्सिद्धं तैलं प्रस्थमात्रकं तस्मिन्गन्धकादीन् क्षिपेत् अग्निश्चित्रकः, शिला मनःशिला, तालं हरितालं, विषा अतिविषा, विषं प्रसिद्धं, तिक्तकोशातकी जालिनी, पीतदारुः, हरिद्रा, क्षारो यवक्षारः, कर्षांशं चूर्णितं क्षिपेत् । सर्वकुष्ठहृत् दद्रुविचर्चिकादिककुष्ठहरम् ॥ १८५-१८९ ॥
स्नुही (सेंड-थूहर ) का दूध १ सेर, आकका दूध १ सेर, धतूरे और चीतेका रस -१ सेर, भैंसके गोबरका रस १ सेर, तिलका तैल ५ सेर और गोमूत्र २० सेर ले कर सबको एकत्र मिला कर मन्दाग्नि पर पकावें । जब तेल मात्र शेष रह जाय तो छान लें।
यह तेल १ सेर ले कर उसमें गन्धक, चीता, मनसिल, हरताल,वायविड़ङ्ग, अतीस, बछनाग, कड़वी तूंबी, कूठ, बच, जटामांसी, सेठ, मिर्च, पीपल, दारुहल्दी, मुलेठी, सज्जीखार, जवाखार, जीरा
और देवदारुका १-१तोला बारीक चूर्ण मिला कर अच्छी तरह घोट कर रखें।।
इसकी मालिशसे समस्त प्रकारके कुष्ठ नष्ट होते हैं।
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|---|---|---|---|---|---|
| 1 | कुष्ठम् - Kushtha | वज्र तैलम् (Vajra Tailam) | शा.म.९/१८५-१८९ |
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|