वामक गणम् / ऊर्ध्वभागहर गणम् - Vamaka Ganam / Urdhvabhagahara Ganam

Scientific Name: वामक गणम् / ऊर्ध्वभागहर गणम् - Vamaka Ganam / Urdhvabhagahara Ganam

Hindi Name: वामक गण / ऊर्ध्वभागहर गण - Vamaka Gana / Urdhvabhagahara Gan

English Name: Vamaka Gana / Urdhvabhagahara Gana - Drugs of Emesis

Category: Combination Products

Sub-Category: बहुरूपम् - Bahurupam - Various Forms

Brief Description

Group of Herbs Used for therapeutic Emesis

चरकसंहिता - सूत्रस्थानम् - २. अपामार्गतण्डुलीयोऽध्यायः
मदनं मधुकं निम्बं जीमूतं कृतवेधनम्| पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७||
उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये| वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८||

आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)

वमनद्रव्ये आदौ मदनमुक्तं प्राधान्यात्; उक्तं हि- “वमनद्रव्येषु मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्” इति (क.अ.१)| उपस्थित इति आमाशयोर्ध्वभागे श्लेष्मणः स्थानं गत्वोत्क्लेशं गत इति व्याख्येयम्| श्लेष्मपित्त इति श्लेष्मपित्ते श्लेष्मणि पित्ते च| पित्तं च यद्यपि साक्षान्न वमनविषयं तथाऽपि श्लेष्मस्थानगतत्वेन श्लेष्मसम्बन्धाद्वमनविषयम्| यदुक्तं- “दोषस्थानगतं दोषं स्थानिवत् समुपाचरेत्” इति| देहमदूषयन्निति यद्यपि वमने प्रोक्तं तथाऽपि विरेचनादिष्वपि बोद्धव्यं, तत्राप्यतियोगायोगमिथ्यायोगैर्देहदुष्टिशङ्कायाः समानत्वात्| उच्यते च न्यायविद्भिर्यत्- “समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यनुषञ्जनीयः” इति||७-८||

सुश्रुतसंहिता - सूत्रस्थानम् - ३९. संशोधनसंशमनीयाध्यायः

मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपुन्नाड कोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीवचामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि |
तत्र, कोविदारपूर्वाणां फलानि, कोविदारादीनां मूलानि ||३||

निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)

प्राग्द्रव्यसङ्ग्रहणीयाध्याये व्याधिप्रत्यनीका द्रव्यगणा उक्ताः, संशोधनसंशमनीये तु दोषप्रत्यनीकप्रायाः पञ्चकर्मोपयोगिनः शोधनद्रव्यसङ्ग्रहगणा वातादिशमनद्रव्यगणाश्च कथयितव्या इति; तत्र द्विविधं संशोधनं- वमनं विरेचनं च; तत्र वमनपूर्वकत्वाद्विरेचनस्य प्रथमं वमनद्रव्यगणमभिधातुमाह- मदनेत्यादि| जीमूतको देवदाली, इक्ष्वाकुः कटुकालाबूः, धामार्गवः पीतपुष्पा कोषातकी, कृतवेधनः कोषातकीभेदः, सर्षपाः श्वेतसर्षपा विशेषेण वमनार्हाः, कोविदारः काञ्चनारः, कर्बुदारः श्लेष्मान्तकः ‘बवहार’ इति ‘लिहूसाडक’ इति च देशभाषया प्रसिद्धः, अरिष्टो निम्बः, विदुलो वेतसः, बन्धुजीवो मध्याह्नपुष्पकः ‘मरुनीया’ इति लोके, श्वेता श्वेतवचा, शणपुष्पी शणसदृशविटपः ‘सणहुली’ इति लोके, बिम्बी किन्दुरिका, वचा द्वितीयाऽरुणा, मृगेर्वारुरिन्द्रवारुणी, चित्रा [१] चित्राण्डिका पटोलफलाकारफला आरण्यकचण्डकेत्यर्थः, अन्ये द्रवन्तीमाहुः| शेषं प्रसिद्धम्| ऊर्ध्वभागहराणि वमनकराणीत्यर्थः| एषां [२] मध्ये कानिचिद्द्रव्याणि साक्षाद्वामयन्ति कानिचिद्वमनद्रव्यमिलितानि| केचिदाचार्या ‘द्वाविंशतिद्रव्याणि’ इत्यत्र गणे नियममाहुः| एषाभवयवविभागमाह- तत्रेत्यादि||३||

अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १४. शोधनादिगणसंग्रहः

मदन जीमूतकेक्ष्वाकु कोशातकीद्वय फलपुष्पपत्राणि कुटजकरञ्जत्रपुस सर्षप पिप्पली विडङ्गैला प्रत्यक्पुष्पी हरेणु पृथ्वीका कुस्तुम्बरु प्रपुन्नाटानां फलानि शारदानि च, हस्तिपर्ण्याः
कोविदार कर्बुदारारिष्टाश्वगन्धा नीप विदुल बिल्व बिम्बी बन्धुजीवक श्वेता शणपुष्पी सदापुष्पी वचा चित्रा चित्रक मृगेन्द्र वारुणी सुषवी चतुरङ्गुल स्वादुकण्टक पाठा पाटली शार्ङ्गेष्टा-मधुक मूर्वा सप्तपर्ण सोमवल्क द्वीपि शिग्रु सुमनस्सौमनस्या यवानी वृश्चीव पुनर्नवा महासहाक्षुद्रसहेक्षुकाण्डकालक्तवृन्त पिप्पलीमूल चविका नलदोशीर ह्रीबेर मूलानि|
शाल्मलीशेलुकाभद्रपर्ण्यैरावण्यावर्तक्युपोदकोद्दालधन्वन रसाञ्जन राजादनोपचित्रागोपशृङ्गाटिकापिच्छाः|
प्रियङ्गुपुष्पम् | तालीसपत्रम्|
हरिद्राशृङ्गवेरकन्दौ| मधुयष्टी दारुहरिद्रासारौ | तगरगुडूचीमधुफाणित
क्षीरक्षारलवणानि चेति वमनोपयोगीनि||२||

शशिलेखा व्याख्या (इन्दु कृत)

मदनादीनां पञ्चानां फलं पुष्पं पत्रं च प्रत्येकम्| कुटजादीनां च फलानि| हस्तिपर्ण्याः शरदुद्भूतानि फलानि|
कोविदारादीनां च मूलानि| शाल्मल्यादीनां च पिच्छा मण्डप्रायम्|
प्रियङ्गोः पुष्पम्| तालीसस्य पत्रम्| पिण्डहरिद्रायाः शृङ्गवेरस्य च कन्दो भूमिभवः| मधुयष्ट्या दारुहरिद्रायाश्च सारं काष्ठम्| तगरादीनि स्वरुपेणैव | इत्येतानि सकलानि द्रव्याणि वमनोपयोगे त्वङ्गत्वं यान्तीति || २||

अष्टाङ्गहृदयम् - सूत्रस्थानम् - १५. शोधनादिगणसङ्ग्रहोध्यायः

मदन मधुक लम्बा निम्ब बिम्बी विशाला त्रपुस कुटज मूर्वा देवदाली कृमिघ्नम्|
विदुलदहनचित्राः कोशवत्यौ करञ्जः कणलवणवचैलासर्षपाश्र्छर्दनानि||१||

सर्वाङ्गसुन्दरी व्याख्या 

मदनं-राठः| मधुकं-मधुयष्टिका| लम्बा-तुम्बी दीर्घतिक्ताऽलाबुसंज्ञा| निम्बः-पिचमन्दः| बिम्बी-गोह्ला, ओष्ठोपमफलसंज्ञा| विशाला-इन्द्रवारुणी| त्रपुसं-तिक्तत्रपुसं व्रेद्यम्, तस्य वमनयोग्यत्वात्| कुटजं-वत्सकम्| मूर्वा-पीलुपर्णी| देवदाली-गरागरी| कृमिघ्नं-विडङ्गम्| विदुलो-जलवेतसः| दहनः-चित्रकः| चित्रा-मूषिकपर्णी| कोशवत्यौ-घण्टालिके, एका धामार्गवो द्वितीया राजकोशातकी| करञ्जो-नक्तमालः| कणा-कृष्णा| लवणं-सैन्धवम्| वचा-गोलोमी| एला-त्रुटीः| सर्षपो-रक्षोघ्नः| एतानि मदनादीनि छर्दनानि-छर्दिकराणि| वसुमुनिविरतिश्चेन्मालिनी नौ मयोः यः|अत्र च मदनविशालात्रपुसकुटजविडङ्गैलासर्षपाणां फलानि वमनक्रन्ति| मधुकविदुलचित्रकदन्तीवचानां तु मूलानि| रोध्रसुवर्णक्षीरीकम्पिल्लानां त्वचः| शेषाणां फलपत्रपुष्पाणि वेदितव्यानीति|

आयुर्वेदरसायनम् व्याख्या 

शोधनादिद्रव्यगणः| तत्र वमनगणमाहमदनमधुकेत्यादि| मदनो-गेलः| मधुकं-यष्टीमधु| लम्बाकटुतुम्बी| निम्बः-पिचुमन्दः| बिम्बी-कटुतुण्डिकेरी|विशाला-इन्द्रवारुणी| त्रपुसं-कटुवालुकम्| कुटजो-वत्सकः| मूर्वा-मधुरसा| देवदाली-जीमूतकः| कृमिन्धं-विङ्गगं| तिदुलो-वेतसः| दहनः-चित्रकः| चित्राचित्राडिका कटुपटोलफलं पत्रकं च| कोशवत्यौ-कटुकोशातकी राजकोशातकी च| करञ्जो-नक्तमालः| कणापिप्पली| लवणं-सैन्धवम्| वचा-उग्रा| एला-त्रुटिः| सर्षपो-रक्षोन्धः| छर्दनानीति वमनानि| बहुवचनं गुणबहुत्वार्थम्| तेन वमनादिद्रव्याणां यस्य कस्यचित् त्रिकचतुष्कपञ्चकादेः प्रयोजकत्वम्| उक्तं च सुश्रुतेन (सू. अ. ३७/३४|-समस्तं वर्गमर्धं वा यथालाभमथापि वा| प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु|| इति| उपलक्षणं चेदम्| अत एव सङ्ग्रहकारोऽधिकमधीते (सू. अ. १४)- मदनजीमूतेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि| कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरीप्रपुन्नटानां फलानि शारदानि च हस्तिपर्ण्याः| कोविदारकर्बुदारारिष्टाश्व्वगन्धानीपविदुलबिम्बीबन्धुजीवकश्वेताशणपुष्पीसद्पुष्पीवचाचित्राचित्रकमृगैर्वारुकेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादुकण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासत्पपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवावीवृश्चीवपुनर्नवामहासहाक्षुद्रसहेसक्षुकाण्डकतकपिप्पलीमूलचविकानलदोशीरहीबेरमूलानि| शाल्मलीशाल्मलुकाभद्रपर्ण्यैरावण्युपोदकौद्दालकधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः| प्रियङ्गुपुष्पम्| तालीसपत्रम्| हरिद्राशृङ्गबेरकन्दौ| मधूकदारुहरिद्रासारौ| तगरगुडूचीमधुफाणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि| इति|
 

 

Sl.No Raw Material Variant Ratio Quantity Required for 1000g Unit
modal-content
Rasa
Guna
Veerya
Vipaka
Prabhava
Anupanam
Sl.No. Disease Factor Name of the combination Form of the combination Reference Combination products Procedure
1 वामकम् (Vamakam - Drug action which induces emesis or vomiting) वामक गणम् / ऊर्ध्वभागहर गणम् - Vamaka Ganam / Urdhvabhagahara Ganam बहुरूपम् - Bahurupam - Various Forms चरकसंहिता - सूत्रस्थानम् - २. अपामार्गतण्डुलीयोऽध्यायः सुश्रुतसंहिता - सूत्रस्थानम् - ३९. संशोधनसंशमनीयाध्यायः अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १४. शोधनादिगणसंग्रहः अष्टाङ्गहृदयम् - सूत्रस्थानम् - १५. शोधनादिगणसङ्ग्रहोध्यायः
Disease Factors
Type Operator Value Unit Frequency Duration Comment
1

Basic Information

2

Main Complaints

3

History

4

General Examination

5

Systemic Examination

6

Ayurved


Respiratory System

1. Inspection
2. Palpation
4. Auscultation

Cardiovascular System

1. Inspection
2. Palpation
4. Auscultation

Gastrointestinal System

1. Inspection
4. Auscultation
5. Per rectal and perianal Examination
6. Endoscopic Findings
7. Colonoscopy Findings
8. MRCP Findings

Central Nervous System

1. Higher Mental function
2. Cranial Nerves
3. Motor System
4. Sensory System

Musculoskeletal System

1. Inspection
3. Special Tests

Integumentary System – Skin and Appendages

1. Inspection
2. Palpation
3. Special Tests

The visual system

Inspection of the eyes
Intra ophthalmic Pressure
Visual acuity
Visual Field
Refractive errors
Ophthalmoscopic examination

The ear

Inspection
Palpation
Otoscopic Examination
Hearing Tests
Vestibular Function Tests
Audiogram

The nose

Inspection
Palpation

The Reproductive System

1. Female Reproductive System
Breast
Inspection
Palpation
External genitalia and vagina and Cervix
Inspection
Palpation
Menstrual History
2. Obstetric Examination
3. Male Reproductive System
Inspection
Palpation

Lab Tests

Imaging studies

Biopsy / FNAC and other histopathological studies

Diagnosis

Disease Scores

Complications

Prognosis

Ashtasthana pareeksha – अष्टस्थान परीक्षा

दशविध परीक्षा – Dashvidha pariksha


Treatments

Results

1. Patient Name -
2. Diagnosis -
Parameters Ayurvedic Part Symptoms Signs Complications Lab tests Imaging Studies Disease Scores Prognosis Action
Before Treatment
After 15 Days

Company

Wholesaler of rock sugar, dry fruits & raw herbs in Udupi, Karnataka.

+91 9964584293
anaamayaherbals@gmail.com

Address

Udupi sweets building,
Opposite to mother of sorrows Church,
K M marga, Udupi,
Karnataka 576101

© Anaamaya Herbals 2026

Glowing
Pay