Brief Description
परिपक्वान्नसंधानसमुत्पन्नां सुरां जगुः । सुरामण्डः प्रसन्ना स्यात्ततः कादम्बरी धनः ॥५॥
तदधो जगलो ज्ञेयो मेदको जगलाद्धनः । वक्कसो हृतसारः स्यात्सुराबीजं च किण्वकम् ॥६॥
दी० - इदानीं सुराविशेषणलक्षणमाह-परिपक्कान्नेति । यत् शाल्यादिकं सम्पाच्य पुनः सन्धितं भवति तेन यत् समुत्पन्नं तां सुरां जगुः । एषा पैष्टी सुरा लोके बगनी शब्दवाच्या विख्याता । अथान्ये बहवो भेदास्तानाह - सुरामण्ड इत्यादि । यः सुरामण्डः उपर्यच्छो भागः सा प्रसन्ना कथिता, यो धनः स एव कादम्बरीशब्देन वाच्यः। घनस्तु सुराभाग एव, यः सुराया अधस्थितो भवति स जगलो ज्ञेयः । यो जगलात् किञ्चिद्धनः स मेदकसुरा संज्ञः कादम्बर्या भिन्नः किञ्चिद्धनत्वात् । यो हृतसारः स वक्कस संज्ञः। सुराबीजं तु किंण्वकमिति । शालिपिष्टप्रभवं किण्वकमिति कथितम् । एते सुराभेदा दर्शिताः । ते च लोकतो ज्ञातव्याः ॥ ५ ॥ ६ ॥
गू० - अथ सुरा । परिपक्वस्य पाचितान्नस्य यत्संधानं तस्मात्समुत्पन्नां सुरां जगुः । अथ प्रसन्नां कादम्बरी चाह-उक्तायाः सुरायाः मण्डः फेनः प्रसन्ना स्यात् ततः घना दृढा कादम्बरी स्यात् । अथ जगलं मेदकं चाह - तदधः सुराया अधः यो द्रवभागः स जगलस्तस्मात् यश्च्यवः मेदकः । अथ सुराबीजं किण्वकमाह - स मेदकः हृतसारः सुराबीजं भवति च पुन: किण्वकं भवति बीजमुत्पत्तिस्थानं विक्कलहस्तीति भाषायाम् ॥ ५ ॥ ६॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|---|---|---|---|---|---|
| 1 | उष्णाभिप्रायी ज्वरम् / शीतज्वरम् - Ushnabhiprayi Jvaram / Sheeta Jvaram - Fever with cold intolerance and desire to have hot things | अगर्वादि तैल - Agarvadi Tailam | च.चि.3/267 |
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|