Brief Description
कुटजत्वक्तुलां द्रोणे जलस्य विपचेत्सुधीः ।। कषायं पादशेषं च गृहियाद्वस्त्रगालितम् ॥ ३८ ॥
त्रिंशत्पलं गुडस्यात्र दत्वा च विपचेत् पुनः । सान्द्रत्वमागतं दृष्ट्वा चूर्णानीमानि दापयेत्॥३९॥
रसाञ्जनं मोचरसं त्रिकटु त्रिफलां तथा । लज्जालुं चित्रकं पाठां बिल्वमिन्द्रयवं त्वचाम् ॥४०॥
भल्लातकं प्रतिविषां विडङ्गानि च वालकम् । प्रत्येकं पलसंमानं घृतस्य कुडवं तथा ॥ ४ ॥
सिद्धशीते ततो दद्यान्मधुनः कुडवं तथा । जयेदेषोऽवलेहस्तु सर्वाण्यार्शांसि वेगतः ॥ ४२ ॥
दुर्नामप्रभवान्रोगानतीसारमरोचकम् । ग्रहणीं पाण्डुरोगं च रक्तपित्तं च कामलाम् ॥४३॥
अम्लपित्तं तथा शोथं कार्श्यं चैव प्रवाहिकाम् । अनुपाने प्रयोक्तव्यमाजं तक्रं पयो दधि ॥ ४४ ॥
घृतं जलं वा जीर्णे च पथ्यभोजी भवेन्नरः।
दी०-इदानीं कुटजावलेहमाह-कुटजत्वगिति । कुटजो वृक्षविशेषः तस्य त्वक् छल्ली सा पलशतपरिमिता ग्राह्या । पादशेषमिति चतुर्थाशं कषायं वस्त्रपूतं कृत्वा ग्राह्यं । कुत्रचिदेतन्न प्रचरति किन्तु पादशेषमिति पादस्य चतुर्थांशस्य यच्छेषं चतुर्भागं तद्राह्यं, एतेनाष्टभागावशेषं कथितम् । तथाच तन्त्रान्तरे-'कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् । अष्टभागावशेषं तु कषायमवतारयेत् । वस्त्रपूतं ततः क्वाथं पचेल्लेहत्वमागतं इति । त्रिंशत्पलं गुडस्यानेति अत्र क्वाथे गुडस्य पुरातनस्य त्रिंशत्पलं दत्वा पुनविपचेदिति यावत् सान्द्र त्वं भवति । चूर्णार्थमपराणि द्रव्याण्याह-रसाञ्जनमिति रसाञ्जनं प्रतीतं तच्च दार्वी क्वाथसमुद्भवमिति प्रसिद्धिः, मोचरसं शाल्मलीवेष्टकं, इन्द्रयवं त्वचमिति इन्द्रयवं कुटजबीजं, त्वक् गुडत्वक् । दुर्नामप्रभवान् रोगानिति गुल्मोदरप्रभुतीन्, अनुपाने प्रयोक्तव्यमिति आज तक्रं, आज पयः, आज दधि, आज घृतं चेति । जलं पानीयं, तक्रादीनामभावात् एतत्सकलमनुपानं यथासात्म्यं निषेवेदित्यर्थः । जीर्णे चेति द्रव्ये परिमिते सति पथ्यभोजी भवेन्नर इति भावः । यतः-औषधशेषे भुक्त मित्यादिवाक्यानुरोधात् ॥ ३८-४४ ॥
गू०-कुटजः वृक्षविशेषस्तस्य त्वक तुलां पलशतम् | जलस्य द्रोणे विपचेत् । सान्द्रत्वं घनत्वमागतं दृष्ट्वा इमानि रसाञ्जनादीनि प्रत्येकं पलमानानि क्षिपेत् । रसाञ्जनं प्रसिद्धं, प्रतिविषा अतिविषा, बालकं उदीच्यं, लजालुः लज्जावती, स्पष्टमन्यत् ॥ ३८-४४ ॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|