सिद्धमन्त्र - ६. पित्तकफघ्नवर्ग
कफपित्तहरं जम्बूः खदिरस्तिनिशोऽसनः ||१०१||
पिप्पलोदुम्बरवटपिप्पलीगर्दभाण्डकाः | कोविदाराम्रकोशाम्रप्रियालाङ्कोलशल्लकी ||१०२||
करञ्जशेलुकम्पिल्लकिङ्किरातविकङ्कताः | रोध्रार्जुनबलामोटाभूर्जपिण्डीतकार्गटाः ||१०३||
श्वेतचन्दनपत्तङ्गे द्रेक्काऽविवृक्षवत्सकाः | काकोदुम्बरिका पूगः कतकष्टिण्टुको धवः ||१०४||
पटोलीकारवल्लीन्द्रवारुणीक्षीरमोरटाः | गुञ्जामेदोगलालज्जाकूर्चपर्णीदुरालभाः ||१०५||
काकजङ्घा निशा मुस्ता त्रायन्ती पुण्डरीयकः | बालकं कट्तृणं दूर्वा दर्भो मरुवको नलः ||१०६||
वंशो बर्हिशिखा देवगन्धा ब्रह्मसुवर्चला | हिलमोची चर्मरङ्गा विषमुष्ट्येलवालुकम् ||१०७||
शणपुष्पी हेमदुग्धा तिरिगिच्छि च माचिका | लाक्षा जतुकरी पुष्पं धूक पुन्नागचम्पकात् ||१०८||
पाटलार्काब्जिनीनिम्बलवङ्गवकुलासनात् | निर्गुण्ड्या मूलकान्मौक्षात्केशरं पद्मनागयोः ||१०९||
आरण्यत्रपुसं बालवार्ताकं तालजोऽङ्कुरः | ताम्रं रीतिर्वर्तलोहं कांस्यगैरिकहिङ्गुलाः ||११०||
शङ्खाञ्जनाब्धिफेनालं सौराष्ट्री यासशर्कराः | शाल्यादि छिन्नजं लाजा मथितं धान्ववैकरे ||१११||
जले पलाशकाश्मर्यं तैलं यूषस्तु मुद्गजः | पटोलजो मूलकजो निम्बामलकजावपि ||११२||
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
जम्बूः महास्कन्धा, खदिरो गायत्री, तिनिशो स्यन्दनः, असनो बीजकः||१०१||
पिप्पलोऽश्वत्थः, उदुम्बरः कृमिफलः, वटो न्यग्रोधः| पिप्पली प्लक्षः, गर्दभाण्डकः छायावृक्षः, कोविदारः कञ्चनारः, आम्रं चूतः, कोशाम्रो लाक्षावृक्षः, प्रियालः चारः, अङ्कोलोऽकोठः| शल्लकी गजभक्ष्या| करञ्जो नक्तमालः, शेलुः श्लेष्मान्तकः, कम्पिल्लो रक्तवर्णः, किङ्किरातः किङ्किराड्गः| विकङ्कतः ग्रावतरुः| रोध्रः तिल्वकः| अर्जुनः ककुभः| बला नागबला, मोटा जयन्ती, भूर्जो लेख्यपत्रः| पिण्डीतकः पिण्डारकः, अर्गटः आर्तगलः| श्वेतचन्दनं शुक्लश्रीखण्डम्, पतङ्गं पट्ट्रङ्गम्, द्रेक्का महानिम्बः, अविवृक्षो मेषशृङ्गी, वत्सकः कुटजः, काकोदुम्बरिका फल्गुः, पूगः क्रमुकः, कतकोऽम्बुप्रसादनफलः, टिण्टुकोऽरलुः, धवः शकटाक्षः| पटोली राजीफला, कारवल्ली सुषवी, इन्द्रवारुणी विशाला, क्षीरमोरटो कोटरमुखः, गुञ्जा काकणन्ती, मेदोगला मृगदन्ती, लज्जा नमस्कारी, कूर्चपर्णी मिटवल्ली| दुरालभा यवासिका|
काकजङ्घा ध्वाङ्क्षजङ्घा, निशा हरिद्रा, मुस्ता गाङ्गेयी, त्रायन्ती त्रायमाणा, पुण्डरीयकः प्रपौण्डरीकः, बालकं ह्रीवेरम्| कत्तृणं ध्यामम्| दूर्वा शाड्वलं, दर्भः कुशः, मरुवकः खरबकः, नलो देवनलः| वंशो वेणुः, बर्हिशिखा मयूरशिखा, देवगन्धा आरामशीतला, ब्रह्मसुवर्चला मण्डूकपर्णी; हिलमोची जलब्राह्मी, चर्मरङ्गा आवर्तकी, विषमुष्टिः केशमुष्टिः, एलवालुकमैलेयम्|
शणपुष्पी घण्टारवः, हेमदुग्धा स्वर्णक्षीरी, तिरिगिच्छिः कण्टककरञ्जः| माचिका माचिकम्| लाक्षा जतु| जतुकंरी चक्रवर्तिनी| धूकादीनां मोक्षान्तानां पुष्पं; तत्र धूकः ईश्वरमल्लिका, पुन्नागः पाटलपुष्पं, चम्पकश्चाम्पेयः|
पाटला वसन्तदूती, अर्को रूपिका, अब्जिनी पद्मिनी, निम्बः पिचुमन्दः लवङ्गश्चन्दनपुष्पः, बकुलो मद्यदोहदः, असनो बीजकः, निर्गुण्डी सिन्दुवारः, मूलकं हरितपर्णम्, मोक्षो मुष्ककः, केशरं पद्मनागयोः; पद्मं कमलम्, नागं नागपुष्पं तयोः केसरं किञ्जल्कम्| आरण्यत्रपुसं वनवालुकम्, बालवार्ताकं कोमलवृन्ताकं, तालजोऽङ्कुरस्तालस्याभिनवोद्भेदः, ताम्रं शुल्वं, रीतिः ब्रह्मरीति, वर्तलोहमारकूटम्, कांस्यं घोषं, गैरिकं रक्तपाषाणः, हिङ्गुलो दरदः| शङ्खः कम्बुः| अञ्जनं स्रोतोञ्जनादि| अब्धिफेनः समुद्रफेनः, आलं हरितालं, सौराष्ट्री तुवरी| यासशर्करा दुरालभोद्भवा शर्करा| शाल्यादि छिन्नजं छिन्नप्ररूढं शाल्यादिधान्यम्| लाजा भृष्टधान्यानि| मथितं दधिविकारः, धान्ववैकरे जले धान्वं जाङ्गलदेशस्थं वैकरं विकरस्थं विकरो वालुकां विकीर्य कृतो जलाशयस्तदुत्थे जले, पलाशः किंशुकः, काश्मर्यं श्रीपर्णी, तयोस्तैलं किंशुककाश्मर्ययोर्बीजतैलम्| मुद्गजादयो यूषाः, मुद्गः शिम्बिधान्यमुख्यः, पटोलं राजीफलं, मूलकं हरितपर्णं, निम्बः पिचुमन्दः, आमलकं धात्रीफलम्, पटोलादीनां मुद्गादिसहितानां यूषाः कार्याः, तैर्विना यूषत्वाभावात्|| एतत्सर्वं श्लेष्मपित्तघ्नम्||१०१-११२||