कफवातघ्न पित्तल द्रव्याणि - Kaphavataghna Pittala Dravyani
Scientific Name: कफवातघ्न पित्तल द्रव्याणि - Kaphavataghna Pittala Dravyani
Hindi Name: कफवातघ्न पित्तल द्रव्याणि - Kaphavataghna Pittala Dravyani
English Name: Kaphavataghna Pittala Dravyani
Category: Combination Products
Sub-Category: बहुरूपम् - Bahurupam - Various Forms
Brief Description
सिद्धमन्त्र - ५. कफवातघ्नवर्ग
कफवातघ्न पित्तल द्रव्य
पित्तलं कफवातघ्नं वरुणः करुणोऽगुरुः | शिग्र्वर्कालर्ककण्टालीभूस्तृणं मरिचः क्षवः ||९०||
काण्डीरस्तुलसी स्वास्यं ताम्बूलीशृङ्गवेरिका | फणिज्जकश्च चाङ्गेरी पिप्पलीमूलचित्रकम् ||९१||
चव्यं त्वचा च वाराहीकन्दो लशुनगृञ्जनौ | पुन्नाडबाकुचीबीजं लुङ्गीजम्बीरजं फलम् ||९२||
चिञ्चावार्ताककालिङ्गकर्कार्वोर्वारुपाकिमम् | पीलूषणं बालबिल्वं तोदनं शीर्णवृन्तकम् ||९३||
मरिचैलादीप्यगन्धाऽऽसुरीसर्षपरामठाः | गुलिकालवणं स्वर्जियवोषक्षारगन्धकाः ||९४||
कुसुम्भश्च कुलत्थाश्च क्षारकूपाम्बुशुक्तकम् | मद्यं मूत्रं काञ्जिकं च सौवीरकतुषोदके ||९५||
खलः काम्बलिकश्चैव गोरसेन विपाचितौ | तैलं मूलकजीमूतकुटजार्ककरञ्जजम् ||९६||
विडङ्गक्ष्वेडकोशाम्रतुम्बीसर्षपशिग्रुजम् | ज्योतिष्मतीङ्गुदीपार्थपृथ्वीकाहस्तकर्णजम् ||९७||
आरुष्करं तौवरकं द्रवन्तीसप्तलोद्भवम् | नीलिकाशङ्खिनीश्यामादन्तीकम्पिल्लपीलुजम् ||९८||
देवाह्वचीडागम्भीरशिंशिपागरुसारजम् |९९|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
वरुणः सेतुवृक्षः, करुणः, छागलाख्यः, अगरुः जोङ्गकः, शिग्रुः सौभाञ्जनकः, अर्को रूपिका, अलर्को मन्दारः, कण्टाली कण्टकारिका| भूस्तृणं मालातृणं, मरिचो जम्बीरशाकम्,
तल्लक्षणम्–
जम्बीरगन्धि हरितं यदम्लकटुकं रसे| शाकं जम्बीरमित्युक्तं जम्भजं चोत्तरापथे इति||
क्षवः छिक्किका| काण्डीरो व्याख्यातः| तुलसी देवदुन्दुभिः| स्वास्यं सुमुखः, ताम्बूली नागवल्ली, शृङ्गवेरिका गोजिह्वाभेदः|
शृङ्गवेरवदाहृत्य शृङ्गवेरी विभाविता| कुस्तुम्बुरुवदाहृत्य तुम्बुरूणि बृहन्ति इत्येके|
फणिज्जको मरुवकः, चाङ्गेर्यम्लपत्री| पिप्पलीमूलं ग्रन्थिकं, चित्रको वह्निः|
चव्यं चविका, त्वचा गन्धत्वक्| वाराहीकन्दः–
क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रा सितरक्तकाण्डा|
बिभर्ति या पल्लवमष्टशब्दात्सकञ्चुकी श्वेतवपुर्वरेण्या– इत्यष्टाङ्गसङ्ग्रहे|
शाककर्कशवाराहवृषणाकारकन्दका| ताम्बूलवल्लीच्छदवद्वाराही गृष्टिकोच्यते||
इत्यन्यत्रोक्ता वा वाराही तस्याः कन्दः, लशुनो रसोनः, गृञ्जनः पलाण्डुभेदः, तथा च वाष्पचन्द्रः–
गन्धाकृतिरसैस्तुल्यो गृञ्जनस्तु पलाण्डुना | सूक्ष्मनालाग्रपत्रत्वाद् भिद्यतेऽसौ पलाण्डुतः|| इति||
पुन्नाडबाकुचीबीजं; पुन्नाड एडगजः, बाकुची सोमराजी तयोर्बीजं; लुङ्गीजम्बीरजं फलम्; लुङ्गी मातुलुङ्गी, जम्बीरो दन्तशठः ताभ्यां जातं फलम्| पाकिममिति चिञ्चादिपञ्चकविशेषणम्| तत्र चिञ्चा चुक्रिका, वार्ताकं वृन्ताकं, कालिन्दं कालिङ्गं, कर्कारु व्याख्यातं, एर्वारुः कर्कटी, पीलूषणं कटुरसं पीलुफलम्, बालबिल्वं कोमलबिल्वफलम्, तोदनं राजप्रियं, शीतफलम्, रावणाम्लिकेत्येके| शीर्णवृन्तकं मुखवासफलम्, कर्वरकमित्येके, क्षुरपत्रकमित्यन्ये|
मरिचं तीक्ष्णं, एला स्थूलैला, दीप्यो यवानी, गन्धा पशुगन्धा, आसुरी राजिका, सर्षपः सिद्धार्थः, रामठो हिङ्गु| गुलिकालवणं पाकातिशृतत्वाद् गुटिकाभूतलवणम्| स्वर्जिः स्वर्जिक्षारः| यवक्षारो यावशूकः| ऊषरा ऊषकः, ऊषरमृत्तिकापाक इत्येके| गन्धको लेलीतकः|
कुसुम्भकुलत्थौ धान्यविशेषौ, क्षारकूपाम्बु क्षाररसं कूपोदकं, शुक्तं चुक्रं, तल्लक्षणम्–
यन्मद्यादि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम्, धान्यराशौ त्रिरात्रिस्थं शुक्तं चुक्रं तदुच्यते|| इति||
आदिशब्देन मधूकपुष्पजादिग्रहणम्| उक्तञ्च–
मधूकपुष्पेक्षुरसगुडपीलुफलादिभिः| साधितं जातमत्यम्लं शुक्रं चुक्रं च तन्मतम् इति|
फलादीन्यभिषूयन्ते सस्नेहलवणानि यत्|तदाहुः शुक्तमपरे सन्धानाभिषुताभिदः|
मघे दत्ते जलस्थाने मद्यसुक्तं तदेव तु|
मधुशुक्तं तु माध्वीके गुडशुक्तं गुडोदके||
इक्षुशुक्तं चेक्षुरसे इत्थमन्यानि कल्पयेत्-'इत्येके|
सर्वं पञ्चरसं मद्यं कालान्तरवशाद्यदा|
व्यक्तान्यरसमम्लत्वं याति शुक्तं तदोच्यते– 'इत्यन्ये|
मद्यं द्राक्षादिसाधनम्| उक्तं चाष्टाङ्गसङ्ग्रहे–
द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः|
मदाकरं यदेभ्योऽन्यत्तन्मद्यप्रतिरूपकम्|| इति||
मूत्रं गोमूत्रं, काञ्जिकं धान्याम्लं, सौवीरं गोधूमकाञ्जिकम्, निस्तुष यवकाञ्जिकमित्येके, तुषोदकं यवकाञ्जिकम्| खलः काम्बलिकश्च गोरसेन विपाचितः गोरसः तक्रम्| मूलकादीनामगरुसारान्तानां तैलम्| तत्र मूलकं हरितपर्णम्, जीमूतो देवदाली, कुटजो वत्सकः, अर्को रूपिका, करञ्जो नक्तमालः| विडङ्गं वेल्लं, क्ष्वेडः कोशातकी, कोशाम्रं लाक्षावृक्षफलं, तुम्बी अलाबुः, सर्षपः सिद्धार्थः, शिग्रुः सौभाञ्जनकः, ज्योतिष्मती कङगुणिका, इङ्गुदी तापसतरुः, पार्था आदित्यभक्ता, पृथ्वीका वाष्पिका, कृष्णजीरकमित्येके; हस्तिकर्णो रक्तैरण्डकः महापर्णो भूशाल इत्यन्ये, अरुष्करो भल्लातः, तुम्बरको व्याख्यातः, द्रवन्ती शम्बरी, सप्तला चर्मसाह्वा, नीलिका कालाञ्जनी, शङ्खिनी यवतिक्ता, श्यामा श्याममूला त्रिवृत्, वृद्धदारुक इत्येके; दन्ती निकुम्भः; कम्पिल्लो रक्तवर्णः, पीलुस्तीक्ष्णतरुः| देवाह्वं देवदारुः, चीडा सरलः, गम्भीरः सारतरुविशेषः, केचिद् गण्डीरं पठित्वा शिरीषं व्याचक्षते| शिंशिपा कृष्णसारः, अगरु जोङ्गकः| एषु मूलकादीनां बीजानि, देवाह्वानादीनां सारः| एतत्सर्वं श्लेष्मानिलघ्नं पित्तकरञ्च|९०-९८|
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|