सिद्धमन्त्र - ५. कफवातघ्नवर्ग
कफवातघ्न द्रव्य
कफानिलघ्नं देवाह्वं हिंस्राकट्फलमुष्ककाः ||७९||
धर्मिणोश्मन्तसरलमधुद्रुपारिभद्रकाः | स्नुही करीरबकुलौ करमर्दोम्लवेतसः ||८०||
श्रीवेष्टको गुग्गुलुश्च करञ्जच्छदनाङ्कुरौ | पत्रकं सैर्यको रास्ना निर्गुण्ड्येरण्डमार्कवाः ||८१||
वर्षाभू वपुषा मुण्डी तेजोवत्यश्वकन्दकः | तर्कार्याघाटबृहतीरामठीदेवसर्षपाः ||८२||
कालशाकोऽम्लिकाकन्दः स्निग्धसिद्धं च मूलकम् | कङ्कोलकुष्ठं कर्चूरतालीसं कोचपुष्करे ||८३||
जीरकं बाष्पिका बस्तमोदा मातङ्गपिप्पली | तुम्बुरुः शतपुष्पा च भार्ङ्गी कालाञ्जनी वचा ||८४||
वत्सादनी कङ्गुणिका शेफाली वृद्धदारुकः | शिरीषिका कर्कटाह्वा फलमश्मन्तधन्वनात् ||८५||
पलाशवेल्लेभबलामिश्रेयाजातिमूलकात् | पक्वं वृक्षाम्लकोशाम्रत्रपुशं शुष्कमाम्रकम् ||८६||
मज्जाऽक्षादस्थिभल्लाताल्लुङ्गात्त्वग्बीजकेसरम् | कुन्दुरुर्विडकासीसं गोरुचिर्मृगजा नखम् ||८७||
पक्व इक्षो रसो वाप्यम्बूष्णाम्भः शैशिरं जलम् | दुग्धं शृतोष्णं करभीक्षीरं कारेणवं दधि ||८८||
तक्रं च कूर्चिका मस्तु तैले एरण्डनिम्बजे | कुलत्थैस्तत्कोलयवैर्यूषः काम्बलिकः खलः ||८९||
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
देवाह्वो देवदारु| हिंस्रा कन्थारी| कट्फलः सोमवल्कलः| मुष्कको मोक्षः| धर्मिणो धन्वनः, अश्मन्तोऽम्लोटजः, सरलश्चीडा| मधूको मधुद्रुमः| पारिभद्रः कण्टककिंशुकः| स्नुही समन्तदुग्ध| करीरो गूढपत्रः| बकुलो मद्यदोहदः| करमर्दी क्षीरफला, अम्लवेतसो वेतसाम्लः| श्रीवेष्टकः श्रीवासः, गुग्गुलुर्महिषाख्यः, करञ्जच्छदनाङ्कुरौ करञ्जो नक्तमालस्तस्य छदनं पत्रं तस्यैवाङ्कुरोऽभिनवोद्भेदः, पत्रकं गन्धपत्रकम्| सैर्यकः कुरण्टकः, रास्ना एलापर्णी, निर्गुण्डी सिन्धुवारकः| एरण्डः पञ्चाङ्गुलः, मार्कवो भृङ्गराजः| वर्षाभूः पुनर्नवा, हपुषा विषा| मुण्डी कुलहलः| तेजोवती तेजोह्वा| अश्वछन्दा अश्वगन्धा| तर्कारी अग्निमन्थः| आघाटो अपामार्गः| बृहती सिंही| रामठी काण्डीरभेदः| यदाह बाष्पचन्द्रः,–
“हरितो द्विविधः प्रोक्तः काण्डीरस्तत्त्वदर्शिभिः|
कटुकं कटदेशादौ भक्षयन्त्याममेव तु||
द्वितीयस्तु दवोद्भदो रामठेति च गीयते” इति|
देवसर्षपो गौरसर्षपः| कालशाकः कालिकाशाकः|| अम्लिकाकन्दः–
“अम्लिका स्वल्पविटपा सुकुमाराम्लनालिका|
प्रायेण कामरूपादौ तत्कन्दश्चार्शसे हितः”
इति वाष्पचन्द्रोक्तः| स्निग्धसिद्धं च मूलकं स्नेहपक्वं मूलकं हरितपर्णं, कङ्कोलं कटुकफलं’ कुष्ठं पाकलं, कर्चूरः शटी, तालीसं तालीसपत्रं, चोरश्चोरकः, पुष्करं पुष्करमूलम्|
जीरकमजाजी, बाष्पिका हिङ्गुपत्री| अजमोदा बस्तमोदा, मातङ्गपिप्पली गजपिप्पली| तुम्बुरुः तीक्ष्णत्वक| शतपुष्पा मिसिः, भार्गी द्विजयष्टिः| कालाञ्जनी नीली| वचा उग्रगन्धा|
वत्सादनी सुदर्शनी, कङ्गुणिका ज्योतिष्मती, शेफाली पुष्पवर्षिणी, वृद्धदारको वेल्लरी, तल्लक्षणमष्टाङ्गहृदये–
“त्रिकोणकाण्डा सुबहुप्रताना, फलेषु पीता कुसुमेषु रक्ता|
पत्रैः सदुग्धैर्मृदुरोमवद्भि स्ताम्बूलतुल्यैर्घनमूलकन्दैः” इति|
शिरीषिका ढण्ढणिका| कर्कटाह्वा कर्कटशृङ्गी| अश्मन्तादीनां मूलकान्तानां फलम्|| तत्राश्मन्तोऽम्लोटजः| धन्वनो धर्मणः| पलाशः किंशुकः, वेल्लं विडङ्गं, इभबला नागबला, मिश्रेया मधुरिका; जाती मालती, मूलकं हरितपर्णं, पक्वमिति वृक्षाम्लादिफलत्रयविशेषणं, तत्र वृक्षाम्लं तित्तिडीकं, कोशाम्रं लाक्षावृक्षफलं, त्रपुसं बालुकं, शुष्कमाम्रं शुष्कचूतफलम्|
मज्जाक्षाद्विभीतकज्जा, अस्थि भल्लातात् भल्लातकास्थि| लुङ्गात्त्वग्बीजकेसरं मातुलुङ्गस्य त्वग्बीजं केसरञ्च, कुन्दुरुः शल्लकीखपुरः, विडं विडलवणं, कासीसं धातुकासीसम्| गोरुचिः गोरोचनः| मृगजा कस्तूरी| नखं गन्धनखम्| पक्व इक्षो रसः, वाप्यम्बु दीर्घिकाजलं, उष्णाम्भः क्वथोष्णमुदकम्| शैशिरं जलं शिशिरर्तुसम्बन्धादुत्पन्नातिशयशैत्यं भौमं तोयं, दिव्यस्यानार्तवत्वदोषात्| दुग्धं शृतोष्णं क्वथितं कोष्णं क्षीरं, करभीक्षीरं उष्ट्रीदुग्धम्, कारेणवं दधि हस्तिनीदधि| तक्रं कालसेयम्| कूर्चिका कूर्चिमण्डः| मस्तु दधिमण्डः| तैले एरण्डनिम्बजे
एरण्डफलनिम्बफलतैले| कुलत्थैः कृतो यूषः| तत्कोलयवैर्यूषः कुलत्थबदरयवजो यूषः| काम्बलिको व्याख्यातः, खलश्च| एतत्सर्वं श्लेष्मवातहरम्||७९-८९||