Brief Description
One among Triphala specially used to treat Kapha Dosha
चरकसंहिता - सूत्रस्थानम् - २७. अन्नपानविध्यध्यायः
रसासृङ्मांसमेदोजान्दोषान् हन्ति बिभीतकम्||१४८|| स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्|
सुश्रुतसंहिता - सूत्रस्थानम् - ४६. अन्नपानविध्यध्यायः
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम् |
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ||२००||
निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)
बिभीतकफलगुणमाह- भेदनमित्यादि| स्वादुपाक्याक्षमिति आक्षं बिभीतकफलं; कीदृक्? स्वादुपाकि||२००||
अष्टाङ्गहृदयम् - सूत्रस्थानम् - ६. अन्नस्वरूपविज्ञानीयाध्यायः
कटु पाके हिमं केश्यमक्षमीषच्च तद्गुणम्||१५८||
सर्वाङ्गसुन्दरी व्याख्या
अक्षं-बिभीतकं, पाके कटुकं शीतवीर्यं केशेभ्यो हितम्| तथा, ईषतद्गुणं,-ताभ्यां-हरीतकीधात्रीभ्यां, समाना गुणा यस्य तत्तद्गुणं किञ्चिदक्षम्| ननु, हरीतक्यादीनां स्थूलसूक्ष्मादिभेदेनानियतस्वरूपत्वात्कथमिवोपयोगः क्रियताम् ? इति केचित्| तान् ब्रूमहे| अक्षं तावदत्र कर्षप्रमाणं ग्राह्यम्| तथा च धन्वन्तरिराख्यत् (धंइघण्टौ व.१|२९२)-"बिभीतकः कर्षफलो" इत्यादि| अन्वर्था हीयं संज्ञा| कर्षं-कर्षप्रमाणं, फलं यस्य स कर्षफल इति| तदेवं बिभीतकस्य फलं यत्कर्षप्रमाणं तद्ग्राह्यमित्यवतिष्ठते| हरीतक्या अपि प्रमाणं नियतमेव| हरीतक्या अपि प्रमाणं नियतमेव| तन्त्रान्तरेऽप्युक्तम्-"नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता तथाऽम्भसि| निमज्जेद्या प्रशस्तत्वात् गुणकृत्सा प्रकीर्तिता| नवादिगुणयुक्तत्वं तथैकत्वं द्विकर्षता| हरीतक्याः फले येनं तेनैतच्छ्रेष्ठमुच्यते||" इति| तदेवं द्विकर्षप्रमाणत्वं हरीतक्याः स्थितम्| धात्रीफलस्यपि युक्त्या नियतप्रमाणत्वमेव| तथा चोक्तं तन्त्रान्तरे "अभयैक प्रदातव्या द्वावेव तु बिभीतकौ| धात्रीफलानि चत्वारि त्रिफलेयं प्रकीर्तिता|| इति| तदेवमामलकानामर्धकर्षप्रमाणत्वमवतिष्ठते| तस्मान्नियतप्रमाणत्वं त्रिफलायाः स्थितम्|
आयुर्वेदरसायनम् व्याख्या
बिभीतकगुणानाह-कटु पाक इति| अक्षं बिभीतकम्| तद्गुणं-आमलकगुणम्| कटु पाक इति स्वादुपाकत्वापवादः| अहिममिति शीतवीर्यस्य निषेधादुष्णवीर्यत्वस्यैव प्रतिप्रसवः| ईषदित्यतिशयो निषिध्यते| स चाम्लत्वस्यैव, न पित्तकफापहत्वस्य| तस्य तन्त्रान्तरे विधानात्| यदाह सुश्रुतः (सू.अ. ४६/२००)-भेदनं लघु रूक्षोष्णं वैस्वर्यं कृमिनाशनम्| चक्षुष्यं स्वादुपाक्यक्षं कषायं कफपित्तजित्||' इति| खारणादिरपि-"कषायमधुरं शीतं लघु पित्तकफापहम्| बिभीतकफलं तस्मान्त्रिफला सार्वयौगिकी||" इति| स्वादुपाकीति,- स्वादु-मधुररसम्, पाकिपाचनम्| अत एव खारणादिना कषायमधुरमुक्तम्| शीतमिति शीतस्पर्शम्, सुश्रुतेनोष्णत्वस्योक्तत्वात्, उष्णवीर्या इति वीर्यग्रहणाच्च|
अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १२. द्विविधौषधविज्ञानीयः
अक्षन्तु तद्गुणान्न्यूनं कषायमधुरं हिमम्| कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु|
परं केश्यस्तु तन्मज्जा शुक्रघ्नञ्च ततोऽञ्जनम्||२४||
शशिलेखा व्याख्या (इन्दु कृत)
अक्षं बिभीतकं कटुविपाकित्वादिगुणयुक्तं इर्षच्च तद्गुणं हरीतकीगुणयुक्तमित्यर्थः||२४||
कैयदेवनिघण्टु - १. ओषधिवर्ग
बिभीतको भूतवासो मधुजीवो बहेडकः | धर्मद्वेषी वसन्तातो हर्यक्षः कुशलस्तूषः ||२४१||
वासन्तोऽक्षो विन्ध्यजातस्तिलपुष्पः कलिद्रुमः | कल्पद्रुमः कर्षफलस्तुमलो रोमहर्षणः ||२४२||
अक्षं कषायमधुरं पाके पित्तकफापहम् | उष्णवीर्यं हिमस्पर्शं केश्यं वैस्वर्यजन्तुजित् ||२४३||
चक्षुष्यं भेदनं रूक्षं लघु कासविनाशनम् | अक्षमज्जा मदकरः कफमारुतनाशनः ||२४४||
द्रव्यगुणसङ्ग्रह - ५. फलवर्ग
पथ्या मज्जा तु चक्षुष्यो वातपित्तहरो गुरुः | वैभीतको मदकरः कफमारुतनाशनः ||४१||
द्रव्यगुणसङ्ग्रह - ५. फलवर्ग
अक्षं भेदनरूक्षोष्णं वैस्वर्यं क्रिमिनुत् कटु | चक्षुष्यं स्वादुपाकं च कषायं कफपित्तनुत् ||४०||
धन्वन्तरिनिघण्टु - १. गुडूच्यादिवर्ग
विभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः | संवर्तको भूतवासः कल्कोहार्यो बहेडक ||२४०||
विभीतकः कटुः पाके लघुर्वैस्वर्यजित्सरः | कासाक्षिवक्त्ररोगघ्नः केशवृद्धिकरः परः ||२४१||
विभीतकं कषायं च कृमिवैस्वर्यजित्सरम् | चक्षुष्यं कटुरूक्षोष्णं पाके स्वादु कफास्रजित् ||२४२||
निघण्टुशेष - १. वृक्षकाण्ड
बिभीतके भूतवासो वासन्तोऽक्षो बहेटकः ||८१||
संवर्तकः कर्षफलः कल्को हार्यः कलिद्रुमः | कर्षो दैन्यो मधुबीजो धर्मद्वेषी बिभेदकः ||८२||
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
बिभेति अस्माद् बिभीतकः, भियो द्वे च [हैमोणादिसू. ७८] इति तकक्, त्रिलिङ्गः, तत्र| भूतानां वासो भूतवासः| वसन्ते भवो वासन्तः, भर्तु-सन्ध्यादेरण् [सिद्ध. ६.३.८९] इत्यण्| अक्ष्णोति-व्याप्नोति अक्षः, अच्; अश्नुते वा मा-वा-वद्यमि- [हैमोणादिसू. ५६४] इति सः| वहीं प्रापणे बहते बहेटः, कपटकीकटादयः [हैमोणादिसू. १४४] इत्यटे निपात्यते, स्वार्थिके के बहेटकः||८१||
संवृत्यते अनेन संवर्तः, स्वार्थिके के संवर्तकः| कर्ष इव फलान्यस्य कर्षफलः| अक्षसामान्याद् अक्षकर्षोऽपि बिभीतके पलचतुर्थभागे च वर्तते| “कलि शब्द-सङ्ख्यानयोः” कल्यते कल्कः, भीण्-शलि- [हैमोणादिसू. २१] इति कः| ह्रियते हार्यः| कलेराश्रयो द्रुमः कलिद्रुमः| कर्षते कृषति वा कर्षः, अक्षसाम्याद्वा| दैन्यहेतुत्वाद् दैन्यः| मधु-मृष्टं बीजमस्य मधुबीजः| धर्मस्य द्वेषी धर्मद्वेषी| बिभेति अस्माद् बिभेदकः, कीचक-पेचक- [हैमोणादिसू. ३३] इत्यके निपात्यते| आह च–
बिभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः| संवर्तको भूतवासः कर्षो हार्यो बिभेदकः|| इति|इन्दुश्च-
अहार्यं बहुवीर्यं च तुमूलं च बिभेदकम्| इति| एतस्य लोके बहेडा इति प्रसिद्धिः||८२||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - २. हरीतक्यादिवर्ग
बिभीतकस्त्रिलिङ्गः स्यान्नाक्षः कर्षफलस्तु सः | कलिद्रुमो भूतवासस्तथा कलियुगालयः ||३३||
बिभीतकं स्वादुपाकं कषायं कफपित्तनुत् | उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ||३४||
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् | बिभीतमज्जा तृट्छर्दिकफवातहरो लघुः |
कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः ||३५||
मदनपालनिघण्टु - १. अभयादिवर्ग
बिभीतकः कर्षफलो भूतावासः कलिद्रुमः | वासन्तोऽक्षो वृद्धजातः संवर्तस्तिलपुष्पकः ||२८||
बिभीतकः स्वादुपाकः कषायः कफपित्तजित् | उष्णवीर्यो हिमस्पर्शो भेदनः कासनाशनः ||२९||
रूक्षो नेत्रहितः केश्यो मज्जातो मदकारकः ||३०||
मदनादिनिघण्टु - २. द्वितीयगण
विभीतकः कर्षफलः कलिवृक्षः कलिद्रुमः | वासन्तको भूतावासो हरीवृक्षो वनप्रियः ||११||
चक्षुष्यः केशजनको वीर्येचोष्णे विभीतकः | स्वर्यः कफहरः श्वासकासहिक्काविनाशनः ||१२||
माधवद्रव्यगुण - १. विविधौषधिवर्ग
भेदनं कटु रूक्षोष्णं वैस्वर्यकृमिनाशनम् | चक्षुष्यं स्वादुपाक्यक्षं कषायं कफपित्तनुत् ||१०||
राजनिघण्टु - ११. आम्रादिवर्ग
विभीतकस्तैलफलो भूतावासः कलिद्रुमः | संवर्तकस्तु वासन्तः कल्किवृक्षो बहेडकः ||२३०||
हार्यः कर्षफलः कल्किधर्मघ्नोऽक्षोऽनिलघ्नकः | विभीतकश्च कासघ्नः स प्रोक्तः षोडशाह्वयः ||२३१||
विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः | चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ||२३२||
राजवल्लभनिघण्टु - ३. माध्याह्निकपरिच्छेद
बिभीतं भेदि तीक्ष्णोष्णं वैस्वर्यं कृमिनाशनम् |चक्षुष्यं स्वादुपाकि च कषायं कफपित्तनुत् ||२०९||
सोढलनिघण्टु- नामसङ्ग्रह (प्रथम भाग) - १. गुडूच्यादिवर्ग
बिभीतके कर्षफलो वासन्तोऽक्षः कलिद्रुमः | संवर्तनो भूतवासः कलिहार्यो बहेडकः ||२३५||
बहुवीर्यस्तैलफलस्तुमुलः पवनोद्भवः |२३६|
Gallic Acid
Ellagic acid
Ethyl ester of gallic acid
Galloyl glucose
Chebulagic acid
Bellaricanin - Cardiac glycoside
Tannin
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | कषाय - Kashaya - Astringent मधुर - Madhura - Sweet कटु - Katu - Pungent |
|---|---|
| Guna | लघु गुणम् - Laghu Gunam - Drug property which induces lightness to body तीक्ष्णम् - Tikshnam - Drug action which irritates body by its Pungent quality उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat रूक्ष गुणम् - Ruksha Gunam - Drug action which imparts dryness श्लक्ष्ण गुणम् - Shlakshna Gunam - Drug property which imparts smoothness द्रव गुणम् - Dravagunam - Drug action which imparts liquid state सर गुण - Saraguna - Drug action which imparts movement मृदु गुणम् - Mrudu Gunam - Drug action which imparts softness सूक्ष्म गुणम् - Sukshma Gunam - Drug property by virtue of which molecules of drug can eneter into minutetst spaces of body विशद गुणम् - Vishada Gunam - Drug action which cleanses the body |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | कफ निस्सारक - Kaphanissaraka - Expectorant/ Drug action which expels the sputum from respiratory tracts |
| Anupanam | रोगोपशमन अनुपानम् - Anupana according to the diseases. | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Serial Number | Title | Result |
| 1 | Phytochemistry and medicinal potential of the Terminalia bellirica Roxb. (Bahera) | The present study was undertaken to provide the rationale for the use of Terminalia bellirica as an anti-inflammatory agent using carrageenan-induced inflammation and antiulcer agent using ethanol-acid induced gastric mucosal injury model in the Swiss albino rats. The antiinflammatory activity of the extract was evaluated using carrageenan (1% w/v) induced inflammation model at doses of 50, 120 and 300 mg/kg, p.o while using ibuprofen (20 mg/kg, p.o) as the standard drug. On the other hand, the antiulcer activity of methanolic extract of T. bellirica leaves at the doses of 100, 250 and 500 mg/kg, p.o. were examined against ethanol-acid induced gastric mucosal injury in the Swiss albino rats - keeping omeprazole (20 mg/kg, p.o.) as the reference. The rats were dissected, and their stomachs were macroscopically examined to identify hemorrhagic lesions in the glandular mucosa. Further, the histopathological changes of paws and stomachs were analyzed. T. bellirica significantly (P<0.01) decreased carrageenan-induced paw edema; it exhibited a reduction of 50.00%, 55.88% and 61.76% at doses of 50, 120 and 300 mg/kg respectively. The methanolic extract also disclosed a good protective effect against ethanol-acid induced gastric mucosal injury in the rats. Oral administration of the extract`s doses (100, 250 and 500 mg/kg) demonstrated a significant (P<0.05) reduction in the ethanol- acid-induced gastric erosion in all the experimental groups when compared to the control. These findings were further supported by the histological study. The study clearly shows that methanolic extract of T. bellirica leaf possesses potent anti-inflammatory activity and promotes ulcer protection as ascertained by regeneration of mucosal layer and substantial prevention of the formation of hemorrhage and edema. |
| Type | Operator | Value | Unit | Frequency | Duration | Comment | |
|---|---|---|---|---|---|---|---|
| Adult Dosage | सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder | <= | 6 | g | 3 times / day | 15 days | |
| कषायम् - kashayam - Decoctions | <= | 100 | ml | 1 times / day | 15 days | ||
| Child Dosage | सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder | <= | 3 | g | 3 times / day | 15 days | |
| कषायम् - kashayam - Decoctions | <= | 50 | ml | 1 times / day | 15 days |