Brief Description
Neem is an effective anti fungal, anti microbial, anticancer drug having multiple health benefits especially influencing skin and integumentary system.
कैयदेवनिघण्टु - १. ओषधिवर्ग
निम्बो नियमनोरिष्टः पिचुमन्दः सुतिक्तकः | सुभद्रः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ||८७८||
कृमिघ्नश्छर्दनो नेता यवनेष्टः शुकप्रियः | निम्बस्तिक्तः कटुः पाके लघुः शीतोऽग्निवातकृत् ||८७९||
ग्राह्यहृद्यो जयेत् पित्तकफमेहज्वरकृमीन् | कुष्ठकासारुचिश्वासहृल्लासश्वयथुव्रणान् ||८८०||
ग्राहि प्रवालं निम्बस्य रक्तपित्तकफकृमीन् | कुष्ठघ्नं वातजननं नेत्ररोगान् विनाशयेत् ||८८१||
तद्वत् पत्राणि निम्बस्य व्रणघ्नानि विशेषतः | शलाका निम्बपत्रस्य कासश्वासविनशिनी ||८८२||
कृमिघ्ना तु वरिष्ठा स्यात् कुष्ठज्वरविनाशिनी | चक्षुष्यं निम्बपुष्पञ्च कृमिपित्तविषप्रणुत् ||८८३||
वातलं कटुपाकं स्यात् सर्वारोचकनाशनम् | फलं तिक्तं रसे पाके कटुकं भेदनं लघु ||८८४||
अरूक्षमुष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत् | निम्बस्य पक्वं मधुरं सतिक्तं स्निग्धं फलं शोणितपित्तरोगे |
कफे प्रशस्तं नयनामयघ्नं, क्षतक्षयघ्नं गुरु पिच्छिलञ्च ||८८५||
निम्बबीजस्य मज्जा च कृमिकुष्ठविशोधनः |८८६|
धन्वन्तरिनिघण्टु - १. गुडूच्यादिवर्ग
निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः | अरिष्टः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ||३१||
निम्बस्तिक्तरसः शीतो लघुः श्लेष्मास्रपित्तनुत् | कुष्ठकण्डूव्रणान्हन्ति लेपाहारादिशीतलः ||३२||
अपक्वं पाचयेच्छोफं व्रणं पक्वं विशोधयेत् ||३३||
धन्वन्तरिनिघण्टु - ७. मिश्रकादिवर्ग
पञ्चनिम्बक
निम्बस्य पत्रं त्वक्पुष्पफलमूलैः समन्वितम् | पञ्चनिम्बमिति ख्यातं नामतः शास्त्रकोविदैः ||५८||
पञ्चनिम्बमिदं कुष्ठपञ्चकव्रणनाशनम् |५९|
निघण्टुशेष - १. वृक्षकाण्ड
निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः ||१३६||
पिचुमन्दो यवनेष्टः शक्रेष्टः शुकमालकः | अरिष्टो हिङ्गुनिर्यासो नेता नियमनोऽपि च ||१३७||
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
नयति रोगान् उपशमं निम्बः, डी-नी-बन्दि- हैमोणादिसू. ३२५ इति डिदिम्बः; निम्ब्यते-सिच्यते वा, तत्र| सर्वतो भद्रमस्मात् सर्वतोभद्रः| पारिनिष्ठां प्राप्तं भद्रमस्य पारिभद्रः| सुतरां तिक्तः सुतिक्तः, के सुतिक्तकः||१३६||
पिचुं-तूलं मन्दयति पिचुमन्दः| अरोमशत्वात्, पिचुमर्दः इत्येके| यवनानामिष्टो यवनेष्टः इति सौश्रुतः| शक्रस्य इष्टः शक्रेष्टः| शुकैर्माल्यते-वेष्ट्यते शुकमालकः| चन्द्रनन्दनस्तु शुकमालमाह| एतस्यैकदेशे मालकोऽपि| रिष हिंसायां न रिष्यते अरिष्टः| हिङ्गुगन्धिर्निर्यासोस्य हिङ्गुनिर्यासः|
हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च| इति शाश्वतः श्लो. ३७३ इति|
नयति रोगानुपशममिति नेता| नियम्यन्ते रोगा अनेन नियमनः, करणाधारे सिद्ध. ५.३.१२९ इत्यनट्| आह च–
निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः | अरिष्टः सर्वतोभद्रः सुभद्रः पारिभद्रकः|| इति|
एतस्य लोके नीम्ब इति प्रसिद्धिः||१३७||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - ४. गुडूच्यादिवर्ग
निम्बः स्यात्पिचुमर्दश्च पिचुमन्दश्च तिक्तकः | अरिष्टः पारिभद्रश्च हिङ्गुनिर्यास इत्यपि ||८१||
निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् | अहृद्यः श्रमतड्कासज्वरारुचिकृमिप्रणुत् ||८२||
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत् | निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ||८३||
वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत् | निम्बफलं रसे तिक्तं पाके तु कटुभेदनम् |
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत् ||८४||
मदनपालनिघण्टु - १. अभयादिवर्ग
निम्बो नियमनो नेताऽरिष्टः स्यात्पारिभद्रकः |
सुतिक्तः सर्वतोभद्रः पिचुमन्दः प्रभद्रकः | कुष्ठहा देवदत्तश्च रविसन्निभसूर्यकौ ||१३७||
निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातकृत् ||१३८||
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत् | निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ||१३९||
तत्फलं भेदनं स्निग्धमुष्णं कुष्ठहरं लघु | अपक्वं पाचयेन्निम्बः पक्वं च परिशोषयेत् ||१४०||
मदनादिनिघण्टु - १. प्रथमगण
निम्बोऽरिष्टः सुभद्रश्च पिचुमन्दः शुकप्रियः | सुतिक्तः सर्वतोभद्रः प्रभद्रो वरतिक्तकः ||७||
अन्यो निम्बो महानिम्बो गिरिकशुकशालकः | बृहन्निम्बो निम्बवरः कार्मुको विषमुष्टिकः ||८||
निम्बस्तिक्तो हिमः कुष्ठ कृमिपित्तकफापहः | महानिम्बः परङ्ग्राही कषायो रूक्षशीतलः ||९||
माधवद्रव्यगुण - १. विविधौषधिवर्ग
निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् | तत्फलं भेदनं स्निग्धमुष्णं कुष्ठहरं सरम् ||१९||
माधवद्रव्यगुण - २२. शाकवर्ग
आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः ||२०||किराततिक्तसहिताः सर्वे पित्तकफापहाः |
राजनिघण्टु - ९. प्रभद्रादिवर्ग
अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः | काकफलः कीरेष्टो नेताऽरिष्टश्च सर्वतोभद्रः ||७||
धमनो विशीर्णपर्णी पवनेष्टः पीतसारकः शीतः | वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ||८||
छर्दनश्चाग्निधमनो ज्ञेया नाम्नान्तु विंशतिः ||९|| प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिमिवमिशोफशान्तये |
बलासभिद्बहुविषपित्तदोषजिद्विशेषतो हृदयविदाहशान्तिकृत् ||१०||
राजवल्लभनिघण्टु - ६. औषधाश्रयपरिच्छेद
निम्बः पित्तकफछर्दिव्रणहृत् वातकुष्ठनुत् ||६३||
लघुनिघण्टु
निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः | अरिष्टः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ||१३७||
शुकपर्णः शीर्णपर्णो अरिष्टो वानरप्रियः | छर्दिघ्नो हिङ्गुनिर्यासः पीतसारो रविप्रियः ||१३८||
मुस्तं सतिक्तं सङ्ग्राहि दीपनं पाचनं कटु | रक्तपित्तत्रिदोषघ्नं कृमिशूलविषापहम् ||१३९||
निम्बस्तिक्तः कफच्छर्दिव्रणहृल्लासकुष्ठजित् | अपक्वं पाकयेत् शोफं पक्वं चापि विशोधयेत् ||१४०||
सोढलनिघण्टु, गुणसङ्ग्रह (द्वितीय भाग), १. गुडूच्यादिवर्ग
निम्बः पित्त कफ च्छर्दि व्रण हृल्लास कुष्ठजित् |
Nimbolinin
Nimbin
Nimbidin
Nimbidol
Gallic Acid
Vitamin C - Ascorbic Acid
Nimbanene
Azadirone
Epoxyazadiradione
Azadiradione
Azadiradione
Gedunin
Quercetin
Beta-sitosterol
n-hexacosanol
6-desacetylnimbinene
Polyphenolic compounds
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | तिक्त - Tikta - Bitter मधुर - Madhura - Sweet |
|---|---|
| Guna | गुरु गुणम् - Guru gunam - Drug action which induces heaviness मन्द गुण - Manda Guna - Drug action which imparts slowness उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat स्निग्ध गुणम् - Snigdha Gunam - Drug action which imparts unctuousness श्लक्ष्ण गुणम् - Shlakshna Gunam - Drug property which imparts smoothness सान्द्र गुणम् - Sandra Gunam - Drug action which imparts thickness or tightness or tight binding मृदु गुणम् - Mrudu Gunam - Drug action which imparts softness स्थिर गुणम् - Sthira Gunam - Drug action which imparts stability सूक्ष्म गुणम् - Sukshma Gunam - Drug property by virtue of which molecules of drug can eneter into minutetst spaces of body पिच्छिल गुणम् - Picchila Gunam - Drug action which induces lubrication/sliminess |
| Veerya | Ushna veerya |
| Vipaka | Katu |
| Prabhava | कुष्ठहरम् - Kushthaharam - Drug action which cures spectrum of Skin diseases. |
| Anupanam | रोगोपशमन अनुपानम् - Anupana according to the diseases. | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
-
A Review of chemical constituents and traditional usage of Neem plant (Azadirachta Indica)
-
Chemical Constituents of the Flowers of Azadirachta indica
-
Chemical and biological investigations on Azadirachta indica (the neem tree)
-
Herbal remedies of Azadirachta indica and its medicinal application.
-
Studies in the Chemical Constituents of Azadirachta indica Part II: Isolation and structure of the new triterpenoid azadirachtol
-
Neem (Azadirachta indica): An indian traditional panacea with modern molecular basis
| Type | Operator | Value | Unit | Frequency | Duration | Comment | |
|---|---|---|---|---|---|---|---|
| Adult Dosage | सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder | <= | 10 | g | 3 times / day | 15 days | |
| कषायम् - kashayam - Decoctions | <= | 100 | ml | 3 times / day | 15 days | ||
| Child Dosage | सूक्ष्म चूर्णम् - Sukshma Churnam - Fine Powder | <= | 5 | g | 3 times / day | 15 days | |
| कषायम् - kashayam - Decoctions | <= | 50 | ml | 3 times / day | 15 days |