Brief Description
सुश्रुतसंहिता - सूत्रस्थानम् - ४६. अन्नपानविध्यध्यायः
चम्पक-किंशुक-कुरण्टकगुणाः
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् |
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ||२८८||
निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)
किंशुकं पलाशपुष्पं, कुरण्टकं सहचरपुष्पम्||२८८||
अभिधानमञ्जरी सङ्कीर्णवर्ग - १. सङ्कीर्णवर्ग
चम्पकष्षट्पदारातिश्चाम्पेयः काञ्चनः स्मृतः ||१०६०||
तिलकः कुरवश्छन्नपुष्पो ज्ञेयो विशेषकः ||१०६१||
कैयदेवनिघण्टु - १. ओषधिवर्ग
चाम्पेयश्चम्पको रम्यः शीतलः सुरभीश्चलः ||१४९८||
सुकुमारो हेमपुष्पः काञ्चनः षट्पदातिथिः | वरलब्धोऽस्य लतिका फली गन्धफली तथा ||१४९९||
चम्पकः कटुकस्तिक्तः कषायो मधुरो हिमः | निहन्ति कफपित्तास्यमूत्रकृच्छ्रविषकृमीन् ||१५००||
धन्वन्तरिनिघण्टु - ५. आम्रादिवर्ग
चम्पकः सुकुमारश्च सुरभिः शीतलश्च सः | चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः ||१४३||
चम्पकः कथितः शीतो वीर्येऽतिकटुको रसे | हृद्यः सुगन्धिविषहा कफपित्तविनाशनः ||१४४||
चम्पकः कथितः शीतो वीर्योऽतिकटुको रसे | हृद्यः सुगन्धिविषहा कफपित्तविनाशनः ||१४५||
चम्पकप्रसवमिष्टसुगन्धं भूसुरामरहीपतियोग्यम् | वातपित्तशमनं च सुगन्धि स्वर्णवर्णमपि षट्पदघाति ||१४६||
निघण्टुशेष - १. वृक्षकाण्ड
चम्पके काञ्चनो हेमपुष्पकः षट्पदातिथिः | कुसुमेन्द्रो वरलब्धः कुमारीवल्लभश्चलः ||९||
चाम्पेयः कुसुमारोग्यः कलिकागन्धफल्यपि |१०|
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
चम्यते-अद्यते भृङ्गैश्चम्पकः, कीचक-पेचक- [हैमोणादिसू. ३३] इत्यके निपात्यते, चाम्पकोऽपि, तत्र | काम्यते काञ्चनः, विदन-गगन- [हैमोणादिसू. २७५] इत्यने निपात्यते, पुल्लिङ्गः| हेमवर्णं पुष्पमस्य हेमपुष्पः, स्वार्थिके के हेमपुष्पकः| षट्पदाः-भ्रमरा एव अतिथयोऽस्य षट्पदातिथिः, षट्पदानामतिथिरिव वा| कुसुमेषु-पुष्पेषु इन्द्र इव इन्द्रः कुसुमेन्द्रः| वरैः-श्रेष्ठैर्लब्धः-प्राप्तो वरलब्धः| कुमारीणां वल्लभः कुमारीवल्लभः| चलति चलः||९||
चम्पादेशे भवश्चाम्पेयः, भवे [सिद्ध. ६.३.१२३] इत्येयण् प्रत्ययः; चप् सान्त्वने चप्यते इति वा, गय-हृदयादयः [हैमोणादिसू. ३७०] इत्यये निपात्यते| कुसुमेषु आरोग्यमस्य कुसुमारोग्यः| कलिकागन्धानि फलान्यस्त्य( नि सन्त्य)स्य कलिकागन्धफली| आह च–
चम्पकः सुकुमारश्च सुरभिः शीतलश्चलः| चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः|| इति|
एतस्य लोके चाम्प-उ इति प्रसिद्धिः|
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - ५. पुष्पवर्ग
चाम्पेयश्चम्पकः प्रोक्तो हेमपुष्पश्च स स्मृतः | एतस्य कलिका गन्धफलेति कथिता बुधैः ||२४||
चम्पकः कटुकस्तिक्तः कषायो मधुरो हिमः | विषकृमिहरः कृच्छ्रकफवातास्रपित्तजित् ||२५||
मदनपालनिघण्टु - ३. कर्पूरादिवर्ग
चम्पकः काचरो रम्यश्चाम्पेयः सुरभिश्चलः | चम्पकः शीतलः कृच्छ्रकफपित्तास्रवातजित् ||९५||
राजनिघण्टु - १०. करवीरादिवर्ग
चम्पकः स्वर्णपुष्पश्च चाम्पेयः शीतलच्छदः | सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ||५७||
सुरभिर्दीपपुष्पश्च स्थिरगन्धोऽतिगन्धकः | स्थिरपुष्पो हेमपुष्पः पीतपुष्पस्तथाऽपरः |
हेमाह्वः सुकुमारस्तु वनदीपोऽष्टभूह्वयः ||५८|| तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ||५९||
चम्पकः कटुकस्तिक्तः शिशिरो दाहनाशनः | कुष्ठकण्डूव्रणहरो गुणाढ्यो राजचम्पकः ||६०||
Quercetin
Methyl benzoate
Indole
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | कटु - Katu - Pungent तिक्त - Tikta - Bitter कषाय - Kashaya - Astringent मधुर - Madhura - Sweet |
|---|---|
| Guna | शीत गुणम् - Sheeta Gunam - Drug property which induces coldness and reduces heat or inflammation |
| Veerya | Shita Virya |
| Vipaka | Katu |
| Prabhava | कामला - Kamala - Disease spectrum with yellowish discolouration ok skin, sclera, nails, yellowish to red urine and feces, altered Sensorium, burning sensations, altered digestion, weakness, emaciation, lethargy, tastelessness |
| Anupanam | रोगोपशमन अनुपानम् - Anupana according to the diseases. | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|