शिरो विरेचन गणम् / शोधन नस्य औषध गणम् - Shirovirechana Ganam / Shodhana Nasya Oushadha Ganam

Scientific Name: Shirovirechana Ganam / Shodhana Nasya Oushadha Ganam

Hindi Name: शिरो विरेचन गण / शोधन नस्य औषध गणम - Shirovirechana Gana / Shodhana Nasya Oushadha Gan

English Name: Shirovirechana Gana / Shodhana Nasya Oushadha Gan

Category: Combination Products

Sub-Category: बहुरूपम् - Bahurupam - Various Forms

Brief Description

This group of products are used to depurate or excrete the Dosha from the organs above the neck.

चरकसंहिता - सूत्रस्थानम् - २. अपामार्गतण्डुलीयोऽध्यायः

अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च | विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३||
अजाजीं चाजगन्धां  च पीलून्येलां हरेणुकाम् | पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||४||
शिरीषबीजं लशुनं हरिद्रे लवणद्वयम् | ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५||
गौरवे शिरसः शूले पीनसेर्धावभेदके | क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||६||

आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)

दीर्घञ्जीवितीये मूलिन्यश्च फलिन्यश्च पञ्चकर्माङ्गभूता उक्ताः, अपराण्यपि च पिप्पलीमरिचप्रभृतीनि पञ्चकर्मसाधनानि सन्ति, तथा पञ्चकर्मप्रभृतिविषयोऽपि तत्र नोक्तः, तेनानन्तरं शेषपञ्चकर्मोपयोगिद्रव्यपञ्चकर्मप्रवृत्तिविषयाभिधायकोऽपामार्गतण्डुलीयोऽभिधीयते| पूर्वोक्तान्यपि चापामार्गादीनि यत् पुनरिहाभिधीयन्ते तदाचार्य एवाध्यायान्ते ‘पूर्वं मूलफल’ इत्यादिना श्लोकद्वयेन समाधास्यति| अपामार्गबीजीय इति सञ्ज्ञायां प्राप्तायामपामार्गतण्डुलीय इति सञ्ज्ञाकरणमपामार्गादिबीजानां निस्तुषाणामेव ग्रहणार्थम्| अध्यायसञ्ज्ञां तण्डुलेन कृत्वाऽपामार्गस्य बीजानीति यद्बीजशब्दं करोति तदङ्कुरजननसमर्थबीजभवानामेव तण्डुलानां ग्रहणार्थम्| यद्यपि चेहोत्सर्गतः पञ्चकर्मप्रवृत्तिर्वमनपूर्विकैव भवति, यदुक्तं- “साधारणेष्वृतुषु वमनादीनां प्रवृत्तिर्भवति” (वि.अ.८) इत्यादि, तथा सुश्रुतेऽप्युक्तं- “अवान्तस्य हि सम्यग्विरिक्तस्याप्यधःस्रस्तः श्लेष्मा ग्रहणीमाच्छादयति” (सु.चि.अ.३३) इत्यादि; तथाऽपि क्वचित् प्रबलदोषापेक्षयाऽन्यथाऽपि क्रमो भवति, यथा शरद्युद्रिक्ते पित्ते विरेचनादि, तथा प्रावृषि प्रबलवाते बस्त्यादिरित्यनियमार्थमिह शिरोविरेचनमादावभिहितं; यदि वा, प्रधानाङ्गशिरःशोधनत्वाच्छिरोविरेचनमादौ कृतम्| यदुक्तं- “यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते” (सू.अ.१७) इति| शालाक्येऽप्युक्तं- “अनामये यथा मूले वृक्षः सम्यक् प्रवर्धते [२] | अनामये शिरस्येवं देहः सम्यक् प्रवर्धते” इति| अपामार्गाभिधानमादौ शिरोविरेचनप्राधान्यात्| यदुक्तं- “प्रत्यक्पुष्पा शिरोविरेचनानाम्” इति (सू.अ.२५)| अजगन्धा अजमोदा, “फोफान्धी” इति केचित्| पीलु औत्तरापथिकं फलम्| लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवं च| अयं वर्गो व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात्| यदुक्तं- “परिसङ्ख्यातमपि हि यद्द्रव्यमयौगिकं मन्येत तदपहरेत्” (वि.अ.८) इति| अन्यत्राप्युक्तं- “समस्तं वर्गमर्धं वा यथालाभमथापि वा” (सु.सू.अ.३७) इति| शिरस इति गौरव इत्यनेन शूल इत्यनेन च सम्बध्यते| क्रिमिव्याधिरिह शिरोगत एव बोद्धव्यः, तत्रैव शिरोविरेचनस्य समर्थत्वात्| प्रमोहको मूर्च्छा, इन्द्रियापटुत्वं वा||१-६||
 

 

 

सुश्रुतसंहिता - सूत्रस्थानम् - ३९. संशोधनसंशमनीयाध्यायः

पिप्पली विडङ्गापामार्ग शिग्रु सिद्धार्थक शिरीष मरिच करवीर बिम्बी गिरिकर्णिका किणिही वचा ज्योतिष्मती करञ्जार्कालर्क लशुनातिविषा शृङ्गवेर तालीश तमाल सुरसार्जकेङ्गुदी मेषशृङ्गी मातुलुङ्गी मुरङ्गी पीलु जाती शाल ताल मधूक लाक्षा हिङ्गु लवण मद्य गोशकृद्रस मूत्राणीति  शिरोविरेचनानि |
तत्र करवीरपूर्वाणां फलानि, करवीरादीनामर्कान्तानां मूलानि, तालीशपूर्वाणां कन्दाः, तालीशादीनामर्जकान्तानां पत्राणि, इङ्गुदीमेषशृङ्ग्योस्त्वचः, मातुलुङ्गीमुरङ्गीपीलुजातीनां पुष्पाणि, शालतालमधूकानां साराः, हिङ्गुलाक्षे निर्यासौ, लवणानि पार्थिवविशेषाः; मद्यान्यासुतसंयोगाः, शकृद्रसमूत्रे  मलाविति ||६||

निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)

शिरोविरेचनद्रव्याणि निर्देष्टुमाह- पिप्पलीत्यादि| अपामार्गः शिखरी ‘अन्धडक’ इति लोके; शिग्रुः शोभाञ्जनकः; सिद्धार्थः सर्षपः; शिरीषो विषघाती स्वनामख्यातः;करवीरः ‘कणवीर’ इति लोके; बिम्बी कुन्दुरुका; गिरिकर्णिका सेफन्दः; किणिही कटभी; ज्योतिष्मती ककुन्दनी; अर्कालकौ अर्कद्वयं; शृङ्गवेरं शुण्ठी; तालीशं तालीशपत्रं; तमालं तमालपत्रं, पत्रकमिति लोके; सुरसा ‘तुलसी’ इति लोके; अर्जकः कुठेरकः; इङ्गुदी इङ्गुकः; मेषशृङ्गी मेढशृङ्गः पुत्रञ्जीवकसदृशपत्रो वृक्षः, अन्ये कर्कटशृङ्गमाहुः; मातुलुङ्गी सुरभिफला वनजाऽरण्यबीजपूरकः; मुरङ्गी रक्तकुसुमः शोभाञ्जनकः, पीलुर्मधुरफलः ‘पीलु’ इति लोके; जाती मालती; शकृद्रसो गोमयरसः; मूत्रं गोमूत्रम्| शिरोविरेचनानीति नस्यप्रयोगेण शिरस्थं श्लेष्माणं विरेचयन्ति स्रावयन्तीत्यर्थः| शेषं प्रसिद्धम्| एषामवयवविभागमाह- तत्रेत्यादि| निर्यासौ स्वरसावित्यर्थः| लवणानि पार्थिवविशेषा इति पृथिव्या अवयवविशेषाः, एतेन स्वरूपेणैव लवणानि ग्राह्याणीत्युक्तम्| मद्यान्यासुतसंयोगा इति सन्धानकसंयोगो मद्यम्, अत एव तदपि स्वरूपेणैव ग्राह्यम्| शकृद्रसमूत्रे मलाविति एते मलौ, तस्मादेते अपि स्वरूपेण ग्राह्ये||६||

 

अष्टाङ्गसङ्ग्रहः - सूत्रस्थानम् - १४. शोधनादिगणसंग्रहः

अपामार्ग विडङ्ग मरिच पिप्पली शिरीष बिल्वाजाज्यजमोद वार्ताक पृथ्वीकैला हरेणुफलानि|
तालीसतमालतर्कारीहरितकवर्गपत्राणि |सर्षपाफलपत्राणि | शिग्रुफलपत्रत्वचः|
हरिद्रामूलकलशुननागरकन्दपत्राणि| अतिविषाकन्दाः|
कुष्ठ वचा भार्ङ्गी श्वेता किणिही नागदन्ती ज्योतिष्मती गवाक्षी वयःस्था वृश्चिकाली बिम्बी करञ्जमूलानि|
अर्कालर्कपुष्पमूलानि | लोध्र मदन सप्तपर्ण निम्ब पीलुबीजानि|
मुरुङ्गी मातुलुङ्गी लवङ्गपुष्पाणि | अगरु सुरदारु सरल सल्लकी जिङ्गिण्यन रसाञ्जन हिङ्गु लाक्षा निर्यासाः|
तमाल साल ताल मधूक दार्वी साराः| तेजस्विनी मेषशृङ्गी वराङ्गेङ्गुदी बृहतीद्वय चोचत्वचः|
राजादन मज्ज क्षौद्र लवणानि मद्यानि गवादिशकृद्रसमूत्र पित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यानपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि||६||

शशिलेकखा व्याख्या (इन्दु कृत)

अपामार्गादीनां फलानि| तालीसादिपत्राणि| सर्षपायाः पत्रं
फलञ्च| शिग्रोः फलं पत्रं त्वक् च| हरिद्रादीनां कन्दः पत्रं च| अतिविषायाः कन्दः| कुष्ठादीनां मूलानि| अर्कालर्कयोः पुष्पं मूलं च| लोध्रादीनां बीजानि मुरङ्ग्यादीनां पुष्पाणि| अगर्वादीनां निर्यासः स्वयं प्रस्तुतो रसः| सालादीनां सारः| तेजस्विन्यादीनां त्वक्| राजादनस्य मज्जा|
क्षौद्रादीनि स्वरूपेणैव| गवादीनामष्टानां मूत्रयोनित्वपाठितानां शकृतः पीडितो रसः| मूत्रं पित्तं च
तेषामेवैवंविधानि रसवीर्यविपाकप्रभावैरेतत्सदृशा-नीन्द्रियाणां चक्षुरादिनामुपशयानि स्वास्थ्यसंवाहकानि तानि स्नेहा यथोक्ताः क्षीररक्तादयश्चेति शिरोविरेचने नस्ये उपयुज्यते||६||

अष्टाङ्गहृदयम् - सूत्रस्थानम् - १५. शोधनादिगणसङ्ग्रहोध्यायः

वेल्लापामार्गव्योषदार्वीसुराला बीजं शैरीषं बार्हतं शैग्रवं च|
सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्||४||

सर्वाङ्गसुन्दरी व्याख्या 

 वेल्लं विडङ्गम्| अपामार्गः प्रत्युक्पुष्पी| व्योषं त्रिकटुकम्| दार्वी पीतद्रुः| सुराला श्रेष्ठसर्जरसः| शैरीशं शिरीषबीजम्| बार्हतं बृहतीबीजम्| शैग्रवं शिग्रुबीजम्| सारो माधूको मधूकपुष्पसारः| सैन्धवं सिन्धूत्थम्| तार्क्ष्यशैलं शुष्करसाञ्जनम्| त्रुट्यौ सूक्ष्मैला स्थूलैला च| पृथ्वीका हिङ्गुपत्री| एतान्युत्तमाङ्गं शोधयन्ति, मूर्धविरेचनानीत्यर्थः| मौ यौ पञ्चाश्वैर्वैश्वदेवीति नाम्ना |

आयुर्वेदरसायनम् व्याख्या 

नावनगणमाह-वेल्लापामार्गेति| सुरालाश्रेष्ठः सर्जरसः| शिरिषबृहतीशिग्रणां बीजम्| मधुकस्यसारः| तार्क्ष्यशैलं रसाञ्जनम्|

त्रुट्यौ एलाद्वयम्| पृष्वीका बाष्पिका| सङ्ग्रहे त्वधिकमुक्तम् (सू. अ. १४)  अपामार्गविडङ्गमरिचपिप्पलीशिरीषबिल्वाजाज्यजनोदावार्ताकपूथ्वीकैलाहरेणुफलानि| तालीसतमतर्कारीहरीतकवर्गपत्राणि| सर्षपफलपत्राणि| शिग्रुफलपत्रत्वजः| हरिद्रामूलकलशुननागरकन्दपत्राणि| अतिविषाकन्दा| कुष्ठथचाभार्ङीश्वेताकिणिहीनागन्तीज्योतिष्मतीगवाक्षीवयस्यावृश्चिकालीबिम्बीकरञ्जमूलानि| अर्कालर्कपुष्पमूलानि| रोध्रमदनसत्पपर्णनिम्बीकरञ्जमूलानि| मुरङ्गीमातुलुङ्गीलवङ्गाप्पुष्पणि| अगुरुसुरदारुसरलशलुकीजिङ्गिण्यशनरसाञ्जनहिङ्गुलाक्षानिर्यासाः| शालतालमधूकदार्वीसाराः| तेजस्विनीमेषशृङ्गीवराङ्गेदीबृहतीद्वयत्वचः| राजादतमज्जा|क्षौद्रलवणमद्यानि, गवादिशकृन्मूत्रपित्तानि, एववुधानि चेन्द्रियोपशमनीयान्यन्यान्यपि| तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि| मधुकपद्मकमञ्जिष्ठासारिवामुस्ता पुन्नागनागकेशरैलवालुकसुवर्णत्वक्त्मालपत्रपृथ्वीकाहरेणुलाक्षाशतपुष्पाशलुकीशकरादमनक्रमक्बकन्प्यग्रोधोदुम्बंराश्वत्श्चप्लक्षरोध्रत्वक्पद्मोत्पलानि सर्वगन्धद्गम्याणि च कुष्ठतगरवर्ज्यानिप्रायोगिकधूमोपयोगीनि| अगुरुगुलिशल्लकीशैलेयकनलदह्रीवेररेणूशीरमुस्तध्यामकवराङ्गश्रीवेष्टकस्यौणेयकपरिपेलैवैलवालुककन्दुरुकसर्जरसयष्ठ्याङ्कफलसारस्नैहिधूमोपयोगीनि| शिरोविरेलद्रव्याणि गन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि| अगुरुगुग्गुलिशल्लकीशैलेयकनलदह्नीवेरेणूशीरमुस्तध्यामकाराङ्गश्चीवेष्टकस्यौणेयकपरिलैवैलवालुककन्दुरुकसर्जरसयष्ठ्याङ्कफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जतिलयवमाषकुङ्कुरानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि| शिरोविरेकद्रव्याणि गन्धद्रव्याणि च तीक्ष्णनि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि| इति|

 

 

Sl.No Raw Material Variant Ratio Quantity Required for 1000g Unit
modal-content
Rasaकटु - Katu - Pungent
Gunaतीक्ष्णम् - Tikshnam - Drug action which irritates body by its Pungent quality
उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat
VeeryaUshna veerya
VipakaKatu
Prabhavaप्रमेहः - Prameha - Disease spectrum with increased urgency, frequency and quantity and altered quality of urine
Anupanam
Sl.No. Disease Factor Name of the combination Form of the combination Reference Combination products Procedure
Disease Factors
Type Operator Value Unit Frequency Duration Comment
1

Basic Information

2

Main Complaints

3

History

4

General Examination

5

Systemic Examination

6

Ayurved


Respiratory System

1. Inspection
2. Palpation
4. Auscultation

Cardiovascular System

1. Inspection
2. Palpation
4. Auscultation

Gastrointestinal System

1. Inspection
4. Auscultation
5. Per rectal and perianal Examination
6. Endoscopic Findings
7. Colonoscopy Findings
8. MRCP Findings

Central Nervous System

1. Higher Mental function
2. Cranial Nerves
3. Motor System
4. Sensory System

Musculoskeletal System

1. Inspection
3. Special Tests

Integumentary System – Skin and Appendages

1. Inspection
2. Palpation
3. Special Tests

The visual system

Inspection of the eyes
Intra ophthalmic Pressure
Visual acuity
Visual Field
Refractive errors
Ophthalmoscopic examination

The ear

Inspection
Palpation
Otoscopic Examination
Hearing Tests
Vestibular Function Tests
Audiogram

The nose

Inspection
Palpation

The Reproductive System

1. Female Reproductive System
Breast
Inspection
Palpation
External genitalia and vagina and Cervix
Inspection
Palpation
Menstrual History
2. Obstetric Examination
3. Male Reproductive System
Inspection
Palpation

Lab Tests

Imaging studies

Biopsy / FNAC and other histopathological studies

Diagnosis

Disease Scores

Complications

Prognosis

Ashtasthana pareeksha – अष्टस्थान परीक्षा

दशविध परीक्षा – Dashvidha pariksha


Treatments

Results

1. Patient Name -
2. Diagnosis -
Parameters Ayurvedic Part Symptoms Signs Complications Lab tests Imaging Studies Disease Scores Prognosis Action
Before Treatment
After 15 Days

Company

Wholesaler of rock sugar, dry fruits & raw herbs in Udupi, Karnataka.

+91 9964584293
anaamayaherbals@gmail.com

Address

Udupi sweets building,
Opposite to mother of sorrows Church,
K M marga, Udupi,
Karnataka 576101

© Anaamaya Herbals 2026

Glowing
Pay