अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्रमुपशान्तेऽग्नावपोह्य भस्म निवृत्तां भूमिं विदारिगन्धादिसिद्धेन तैलघटशतेन तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहेऽभ्यासिञ्चेत्, तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात्; ततस्तैलं वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं, प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्बालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात्, तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम्; एवं भागशतविपक्वं शतपाकम् ||२९||
सहस्रपाकं व्युत्पादयन्नाह- अथेत्यादि| पञ्चमूलप्रमाणं तैलं परिप्लाव्य भूमिभागप्रमाणेन| असितं कृष्णभूमिप्रदेशमित्यर्थः| उषितं स्थितम्| अपोह्य स्फोटयित्वा| निवृत्तां भूमिम् उपशान्ततापामित्यर्थः| विदारिगन्धादीत्यादि| कल्ककषायकल्पेन विदारिगन्धादिपक्वेन तैलघटशतेन तुल्यपयसा भूमिमभिसिञ्चयेत्| तैलमत्र तिलतैलम्| स्निग्धेति तैलक्षीराभ्यामार्द्रीकृतेत्यर्थः| महति कटाहे अत्रैकवचनं जात्यपेक्षया| तेनैकस्मिन् द्वयोस्त्रिषु वा| अभ्याषिञ्चेत् प्लावयेत्| वातहरौषधानि भद्रदार्वादीनि, तेषां क्वाथः क्वाथकल्पेन सिद्धः, मांसरसः जाङ्गलमांसरसकल्पेन सिद्धः, क्षीरं गोक्षीरम्, अम्लं काञ्जिकम्| भागसहस्रेणेति अत्र भागश्चतुर्थांशः; तेन वातहरक्वाथमांसरसक्षीराम्लानां प्रत्येकं भागसहस्रं; तेनैतदुक्तं भवति- प्रतिपाकं क्वाथादिभिस्तैलापेक्षया प्रत्येकं पादिकैः समुदायतस्तैलसमैः सहस्रपाकं यथा भवत्येवं वारसहस्रं पचेदिति गयी| जेज्जटस्तु क्वाथादीनां समुदायतस्तैलापेक्षया चतुर्थांशानां सहस्रमप्येकवारमेव निक्षिप्य विपचेदिति मन्यते, सहस्रपाकमिति तु सञ्ज्ञा, प्रत्येकं सहस्रवारान् पाके सति तैलोपक्षयः स्यात्| एतच्च गयदासेन दूषितं; तद्यथा- नहि सर्वतैलोपक्षयो भवति, किन्तु किञ्चिदेव, प्रतिपाकं क्षीरस्य पादिकस्य प्रवेशात्, अल्पः पुनरुपक्षयो राज्ञां महाधनानां यत्किञ्चिदेवेति| तस्मात् महाचार्याभ्यां व्याख्यातत्वात् पाकप्रकारद्वयमपि प्रमाणम्| यद्यपि द्रवसहस्रभागेन शतं वारान् विपचेदिति केनचिदुक्तं, तथाऽपीदृशं न बोद्धव्यं, प्रमादव्याख्यानत्वात्| प्रतिवापश्चात्र गन्धकल्कस्यावाप इत्यर्थः| हैमवता इति हैमवता उत्तरापथसम्भूताः, ते पुनः कस्तूरीशटीकुष्ठमांसीसरलसुरदारुमुरादयः| दक्षिणपथगाः चन्दनजातीफलकङ्कोललवङ्गादयः| तैः कल्कीकृतैस्तैलपादिकैः| वातघ्नानि चेति वातघ्नैरपि शतपुष्पामिश्रिप्रभृतिभिर्वातहरगणपरिपठितैः| तत्र शङ्खाध्मापनाद्यचिन्त्यशक्तित्वादतिशयव्युत्पादनार्थम्| अन्ये तु “तैलघटशतेन दुग्धवसाभ्यामभ्याषिञ्चेत्” इति पठन्ति; तन्न पठितव्यं, विवेककर्तृभिरुपाध्यायैरव्याख्यातत्वात्| शतपाकमुत्पादयन्नाह- एवं भागशतेत्यादि| एतत् सुबोधम्||२९||ह्