Brief Description
शा.म.९/५१
कासीसं द्वे निशे मुस्तं हरतालं मनशिलाम् ।कम्पिल्लकं गन्धकं च विडङ्गं गुग्गुलुं तथा ॥
सिक्थकं मरिचं कुष्ठं तुत्थकं गौरसर्षपान् ।रसाञ्जनं च सिन्धूरं श्रीवासं रक्तचन्दनम् ॥
इरिमेदं निम्बपत्रं करञ्जं सारिवं वचाम् ।मञ्जिष्ठा मधुकं मांसीं शिरिषं लोध्र पद्मकम् ॥
हरीतकीं प्रपुन्नाटं चूर्णयेत् कार्षिकान् पृथक् ।ततस्तच्चूर्णमालोड्य त्रिंशत्पलमिते घृते ॥
स्थापयेत् ताम्रपत्रे च घर्मे सप्तदिनानि वै ।अस्याभ्यङ्गेन कुष्ठानि दद्रुपामाविचर्चिका :॥
शूकदोषाः विसर्पाश्च विस्फोटाः वातरक्तजाः ।शिरःस्फोटोपदंशाश्च नाडीदुष्टव्रणानि च ॥
शोथो भगन्धरश्चैव लूताः शाम्यन्ति देहिनाम् ।शोधनं रोपणं चैव सवर्णकरणं घृतम् ॥
दी-अधुना कासीसाद्यघृतविवरणमाह-कासीसमिति । कासीसं द्रव्यविशेषं भस्मवदल्पमृत् अस्य भेदः पुष्पकासीसं, तच्च किञ्चित् पीतम् , द्वे निशे हे हरिद्रे, कम्पिल्लको रोरीशब्दवाच्यो वृक्षविशेषः, कम्पिल्येत्यपरे, सिक्थकं मधूच्छिष्टं, रसाञ्जनं दार्वी क्वाथोद्भवं, सिन्धूरं प्रसिद्धं श्रीवासं निर्यासद्रव्यं रालशब्दवाच्यं, इरिमेदो विट्खदिर ओजशब्दवाच्यः करञ्जो बृहत्करञ्जो वृक्षविशेषः लोके चोला इति प्रसिद्धः । सारिवा आस्फोता 'आफोई लोके; मांसी गन्धमांसी जटावद्विटपः, पद्मकं पद्मकाष्ठं, प्रपुन्नाटं चक्रमर्दबीजानि, एतानि पृथक् कर्षप्रमितानि चूर्णीकृत्य त्रिंशत्पलपरिमिते घृते आलोड्य ताम्रपात्रे निधाय धर्मे धारयेत् यावत् सप्त दिनानि भवन्ति । एतच्चाद्रवाग्निसिद्धं सूर्यपाकसंज्ञमिति बोद्धव्यम् । अस्मत्संप्रदाये तु कल्कार्हं द्रव्यं कल्कीभूतं कृत्वा चतुर्गुणेन पानीयेन सह घृतं विपाच्य पश्चात् प्रक्षेपयोग्यं द्रव्यं चूर्णीकृत्य तत्र प्रक्षिप्यालोड्य धर्म सप्तदिनं यावद्धारयेत् एवं सिद्धो भवति । कल्कार्थ द्रव्यं यथा-हरिद्रामुस्तरक्तचन्दनेरिमेदनिम्बपत्रकरञ्जसारिवावचामञ्जिष्ठामधुमांसीशिरीषलोध्रपद्मकहरीतकीप्रभृतिकं शेषं प्रक्षेपार्थ ज्ञेयम् ॥ ५१-५७ ॥
गू०-कासीसं प्रसिद्धं, द्वे निशे हरिद्राद्वयं, रसाञ्जन्ं दार्वी क्वाथोद्भवं प्रसिद्धं, शिरीषं प्रसिद्धं, पद्मकं पद्मककाष्ठं, प्रपुन्नाटं चक्रमर्दस्तस्य बीजानि, एतान् पृथक् कर्षमितान् त्रिंशत्पलमिते घृते ताम्रपाने धर्मे सप्तदिनं स्थापयेत् ॥ ५१-५७ ॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|