Brief Description
व.से/रक्तपित्तम्
अमृता त्रिवृता दन्ती श्रावणी खदिरो वृषः । चित्रको भृङ्गराजश्च कोकिलाक्षः स पुष्करः ॥
पुनर्नवाबलाकाशा: शिग्रु मोरटदारकाः। स्नुही रविरसो दर्भः कुशास्थि सहपीवरी ॥
गवाक्षी वरुणः कन्दश्चविका तालमृलिका । नागबला कणामूलं कुष्ठं ब्राह्मणयष्टिका ॥
पलोन्मितानि सर्वाणि जलद्रोणे विपाचयेत् ।। अष्टभागावशिष्टन्तु कषायमुपकल्पयेत् ॥
त्रिफलायास्तथा प्रस्थं जलाष्टगुणप्राचितम् । तस्मादष्टावशेषस्तु कषायस्तु परिस्रुतैः ॥
माक्षिकेन हतञ्चापि पुटितञ्च यथाविधिः । आयसं चूर्णितं पूतं पलं षोडशसम्मितम् ॥
पलान्यभ्रस्य चत्वारि तावन्ति गन्धकस्य च । द्वे द्वे पले रसस्यापि खल्लितस्य यथा विधिः ॥
गुडस्य च पलान्यष्टौ सितायाश्चाथ पैत्तिके। रक्तपित्तेऽथ खण्डस्य मत्स्यण्डया वाथ कासके ॥
गुग्गुलोर्द्विपलं दत्वा प्रस्थार्धं सर्पिषस्तथा। एवं पाकविधिज्ञस्तु पचेल्लोहं समाहितः ॥
शीतेऽवतार्य मधुनः क्षिपेदष्टपलं भिषक् । माक्षिकस्य विशुद्धस्य द्विपलं रजसः क्षिपेत् ॥
शिलाजतोस्तथा चूर्णं पलार्धं सम्मितं भिषक् । अथैषां प्रक्षिपेच्चूर्णं पलमात्रं पृथक् पृथक् ॥
त्रिकटु त्रिफला दन्ति त्रिवृता जीरकद्वयम् । गायत्रिसार तालीसं धान्यकं मधुयष्टिका ॥
शुभा रसाञ्चनं शृङ्गी चित्रकं चव्यमुस्तकं । चातुर्जातक कङ्कोलं लवङ्गं जातिकं फलम् ॥
द्राक्षा खर्जूरकं चूर्णं पलार्धसम्मितं भिषक् । एषः लोहवरः श्रीमान् सर्व व्याधि विनाशनः ॥
यत्र यत्र प्रयुञ्जीत तत्तदाशु विनाशयेत् । रक्तपित्तेऽम्लपित्ते च क्षये कुष्ठे ज्वरेऽरुचौ ॥
दुर्नाम्नि चोदरे शूले ग्रहण्याञ्चामवातके । वातरक्ते मूत्रकृच्छ्रे प्रमेहे शर्करागदे ॥
अस्योपयोगान्मनुजस्तारुण्यमधिगच्छति । ब्राह्मचर्येण कुर्वीत प्लुतं माक्षिक सर्पिषा ॥
माषकं रक्तिका वृद्ध्या यावदष्टौ च माषकाः ।वर्जयेत् द्विदलं सूपं मांसं चानूपसम्भवम् ॥
ककारपूर्वकं सर्वं प्रयत्नेने विवर्जयेत् । अमृताख्यो वरो लोहः सर्वत्रैवोपयुज्यते ॥
अनेन जन्तवाः स्वस्थाः नीरुजः सन्ति नान्यथा ॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|