Brief Description
योग रत्नाकर/वातव्याधि
सैर्ययासविषादारुव्याघ्रीयुक्चविका वृषम् । कृष्णान्दोग्राघनाभीरुवाट्यालंमिशिवेल्लरी ॥
पथ्या शुण्ठी छिन्नरुहा शठ्यारग्वधगोक्षुरम् । विशाखा मोदकी तिक्ता ग्रन्थिमार्गी विदारिका।
अलम्बुषा हस्तिकर्णी वस्तगन्धा विषाणिका । शिवाक्षं मुशलीकौन्तीकाकोलीदीप्ययुग्मकम् ।।
त्रिवृद्दन्ती शिखी शृङ्गी कोकिलाक्षो दुरालभा। पञ्चमूलं महद्वीरतरुः कुष्ठं च जोङ्गकम् ॥
जातीपत्रीफलैलं च केशरं त्वक्किरातकम् । कुङ्कुमं देवकुसुमं विशाला निशिसैन्धवम् ॥
मन्दारमूलं कृमिजिद्धेमदुग्धा रविप्रिया। गजपिपल्यपामार्गों वानरी नक्तमालकः॥
एतैः रास्ना समा चाभा द्विगुणा तैः पुरः समः । सूतं गन्धं हिङ्गलं च टङ्कणं लोहमभ्रकम् ॥
शुल्वं वङ्गं मूतभस्म नागं ताप्यमयोरजः । मिलितं पुरपादं च सर्वमेकत्र कारयेत् ॥
पचेच्चतुर्गुणे क्वाथे पुरं षट् कटुजे पुरा । तुर्यांश शेषिते काथे पूते चात्र विनिक्षिपेत् ।।
चूर्णानि पुरमुख्यानि पाचयेन्मृदुवह्निना। यावद्घनतरं तावद्गुटिकाः कारयेत्ततः ॥
स्वर्णप्रमाणाः सेव्यास्ता मधुसर्पिःसमन्विताः। सप्तधातुगतान्वातान् सिरास्नाय्वस्थिसन्धिगान् ।।
सामान्निरामान्संसृष्टान् श्लेष्मजान् घ्नन्ति केवलान् । यक्ष्माणमग्निमान्द्यं च ज्वरं धातुगतं तथा ।
गुल्फजानूरुकटयूरूदर हृत्कुक्षिकक्षगान् । अंसमन्याहनुश्रोत्र भ्रूललाटाक्षिशङ्खगान् ॥
प्रमेहं मूत्रकृच्छ्रे च शूलमाध्मानमश्मरीम् । किं पुनर्मेदकान्वातान्प्रत्यङ्गस्थान् जयत्यलम् ।।
गुग्गुलुः षडशीति नाम्ना भोजेन कीर्तितः। क्षीयमाणेन शिष्येण प्रार्थितेन पुनः पुनः ।।
स एष राजयोगोऽयं न देयो यस्य कस्यचित् । वत्सरेणास्य योगेन षण्डोऽपि प्रमदाप्रियः ।।
वाजीकरणमन्यच्च परं नास्माद्विशेषतः । गुणोऽस्य सेवनान्नित्यं यः स्यात्सस्याद्ब्रवीमिकिम् ॥
एष नो परिहार्यस्तु पानभोजनमैथुनैः।
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|