Brief Description
भा.प्र.म.२४/२६१-३२६
तिलतैलं समादाय चतुराढक सम्मितम् ॥ पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये ॥ २६१
तत्राजं दुग्धमथवा गव्यं तैलसमं पचेत् । शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक् ॥२६२
दशमूली बला रास्ना शिग्रूत्पलपुनर्नवाः । शेफालिका नागबला बला चैव प्रसारणी ॥ २६३
अश्वगन्धा सहचरो दशमूलं करञ्जकः । खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम् ॥ २६४
बकुलैरण्डवरुणशालयुग्मकटम्भराः । शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम् ॥ २६५
काञ्चनारः कपित्थश्च पारिभद्रः प्रियालकम् । पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम् ॥ २६६
उदुम्बरः सप्तला च कन्यका मालतीत्वचम् । मागधी नलमूलञ्च यवकोलकुलत्थकम ॥ २६७
आत्मगुप्ताऽर्ककार्पासबीजं वत्सादनी स्नुही । केतकीमूलधत्तूरलाङ्गलीगर्दभाण्डकम् ॥ २६८
चित्रकञ्च महानिम्बं पञ्चवल्कलमेव च । मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम् ॥२९६
एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत् । पादशेषं परिस्राव्य तत्र तैलं पुनः पचेत् ॥३००
छागो मेषश्च हरिण एणश्च बहुशृङ्गकः । शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः ॥ ३०१
वन्यो वराहः खड्गी च महिषो घोटकस्तथा । कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः ॥३०२
वर्त्तिकस्तित्तिरिर्लावः खञ्जरीटश्चकोरकः । उलूको नीलकण्ठश्च वन्यकुक्कुट एव च ॥३०३
गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च । कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा ॥३०४
रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा । इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च ॥ ३०५
महामत्स्यः कच्छपश्च शिशुमारश्च साङ्कुचिः ।मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका ||३०६
यथालाभममीषाञ्च क्वाथं तैलसमं पचेत् || ३०७
रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि | सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च ||३०८
एला सयष्टी तगराब्दपत्रं भृङ्गोऽष्टवर्गस्तु वचा पलाशी | स्थौणेयवृश्चीरकचोरकाख्यं मूर्वात्वचं कटफलपद्मकं च ॥३०६
मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च । जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च ॥३१०
कैवर्त्तमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च । सधातकीग्रन्थिकपर्पटाश्च पटोलहेमाह्वजयन्तिकाश्च ॥ ३११
त्रायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभात्रिवृतारुणाश्च । द्राक्षाकणाद्रोणपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च ३१२
नीलोत्पलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च । कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च ॥
लवङ्गकर्पूरसालकाण्डकस्तूरिकाबालकमम्बरञ्च ॥३१३
कल्कानमीषां विपचेत्सुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम् । शुभे च नक्षत्रमुहूर्तलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च ॥३१४
सम्पूज्य नारायणनामधेयं देवं त्रिनेत्रं जगतामधीशम् । पात्रे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत् ॥ ३१५
अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने । पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकित्सकः ॥ ३१६
बहुनाऽत्र किमुक्तेन तैलमेतत्प्रयोजितम् ।अवश्यं वातजान्व्याधीनशीतिमपि नाशयेत् ॥३१७
एतस्याभ्यासतो जन्तोर्जरा जातु न जायते । पतन्ति वलयो नाङ्गे पलितञ्च न जायते ॥३१८
नेत्रं तेजस्वि नितरां गरुडस्येव जायते । नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते ॥३१६
पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते । बुद्धिभ्रंशो न जायेत तस्मात्कर्मसु पाटवम् ॥३२०
यथा जलेन सिक्तस्य शाखिनः पल्लवादयः ।वर्द्धन्ते धातवस्तद्वद् देहिनोऽनेन नित्यशः ३२१
आमं गर्भं त्यजेज्जातु सूतिका रुग्युता च या । याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम् ॥३२२
वन्ध्या च लभते पुत्रं गर्भपातो न जायते । योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति ॥३२३
अस्मात्तैलवरादन्यत्कुत्रचिन्नास्ति भेषजम् । बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत् ॥ ३२४
पुरा देवासुरे युद्धे दैत्यैरभिहतान्सुरान् भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽर्दितान् ।३२५
दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम् । तैलं नारायणो देवो महानारायणाभिधम् ३२६
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|