अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्|
हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्|
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्|
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्|
मधूच्छिष्टं सर्जरसं घृतं वागुरु वा गुरु|
चन्दनं वाजशृंगं वा बालान्वा स्नाववागवाम्|
ऋष्यगोधाकुरडैगणचर्मशृङ्गखुराणि वा|
गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा|
सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्||७||
कृतसंशुद्धेरपि दोषस्याशान्तौ ऋष्यादीनां यानि चर्मादीनि तानि च पृथग्धूमः| ऋश्यो मृगभेदः| सल्लक्यादिकं मिश्रीभूतं घृताप्लुतं धूमः| सल्लकी सुरभिः| (नि)सल्लकी सुरभिर्मोचा महेरुण्यश्वमूत्रिका| लोहमगरु||७||