धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः|
चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः|
सजीवकैः समधुकैः सपलाशैः सदाडिमैः|
बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः|
शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः|
नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्दितः|
गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः||३८||
सगुडा इत्यादिना नवयोगा वातज्वरे नियताः नियमकल्पनाः| तत्र सारिवादयो रेणुकान्ताः सगुडाः| शतपुष्पादयः समांसीमुस्तधान्यकाः शर्करामधुसंयुक्ताः| कृष्णादयः सारिवान्ताः शालपर्ण्यादयश्छिन्नसम्भवान्ताः| आरग्वधादिकः सगुडः| शतावरीगुडूच्योः स्वरसः सगुडः| गुडूचीरसः सकृष्णाजीरकादिः| केवलश्च गुडूचीरसः| सर्वत्र च मधुगुडशर्कराणां व्यप्तिजनिका मात्रा| भार्ङ्ग्यादिघृतगुडसंयुक्तो वातज्वरे|गाङ्गेयी मुस्ता| एलवालुकमैलेयं सुगन्धि हरिवालुकमिति पर्यायाः||३१||