वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरूहाभार्ङ्गीरा
स्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलांशान् द्विपलां
शान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे
पादावशिष्टं विपचेत्|
तेन पृथक् समं मातुलुङ्गदाडिमा
म्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं
वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भ
निकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविड
ङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रा
त्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्ब
रीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत्|
दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण|
मूत्राघातोन्मादाप
स्मारवाटव्याधिहरञ्च||७||
वर्षाभ्वादिना दाधिकाख्यं सर्पिः| वर्षाभ्वादीनि द्विपलांशानि| दशमूलद्रव्याणि पृथक्| यवादीनां प्रत्येकं प्रस्थम्| मातुलुङ्गादिफलरसाः शुक्तादित्रयं च पृथक् पृथक् घृतसमम्| वचादिकल्कः स्नेहच्चतुर्थांशेन| वर्षाभूः पुनर्नवा| सुषवी उपकुञ्चिका| छिन्नरूहा गुडूची| काला नीलिनी| गन्धपलाशं गन्धपत्रम्| आम्रः सहकारः| आम्रातकं पीतनकफलम्| कुम्भो द्रवन्ती| निकुम्भो दन्ती| यवनको यवानीभेदः| हिंस्रा मांसी| नीलिन्याः फलानि| ऊषकः वातसाह्वयः| तदेव सिंहमूत्रम्| वृषकोटरूषकः| श्वदंष्ट्रा गोक्षुरकः| त्रपुसस्योर्वारोश्च बीजम्| उपकुञ्चिका प्रसिद्धा सितासिताभेदेन| ग्रन्थिकं पिप्पलीमूलम्| कुस्तुम्बरी धाना| तुम्बरोः फलानि| सुरसा प्रसिद्धं हरीतकद्रव्यम्| पूर्वेण हपुषादिना गुणैः समानम्| मूत्राघातादिहरं च|| ७||