अ.सं.उ.४२/५१, सु.क.६/६८-७३
मांसीहरेणुत्रिफलामुरुङ्गी मधुयष्टिका|
मञ्जिष्ठा पद्मकाशोककुष्ठतालीसचन्दनम्|
सुगन्धिकैला किणिही त्वक्पटोली मृगादिनी|
भार्ङ्गीं विडङ्गं पालिन्दी पाठा क्रोष्टुकमेखला|
पुष्पमारुष्करं पत्रं सौरसं क्रमुकं पुरम्|
पित्तं नकुलमार्जारगोधाशल्यकसूकरात्|
पृषताच्चित्रपत्राच्च गोशृङ्गे पुर्ववत् स्थितः|
यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः|
एतेन भेरीपटहाः पताकाश्च प्रलेपिताः|
आर्षभेण विषं घ्नन्ति स्पर्शश्रवणदर्शनैः||५१||
मुरुङ्गी सौभाञ्जनकः| सुगन्धिका सर्पगन्धिका| किणिही कटभी| मृगादिनी इन्द्रवारुणी| पालिन्दी त्रिवृत्| क्रोष्टुकमेखला पृश्निपर्णी| क्रमुकं पूगफलम्| पुरं गुग्गुलुः| पृषतो हरिणः| चित्रपत्रो मयूरः| इति सुश्रुतटीकायाम्|| ५१||
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ||६८||
विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि |
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ||६९||
पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम् |
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ||७०||
वराहगोधाशिखिशल्लकीनां [२] मार्जारजं पार्षतनाकुले च |
यस्यागदोऽयं सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ||७१||
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव |
एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ||७२||
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति |७३|