अकालपलितेषु वातादीनवेक्ष्य स्नेहस्वेदसंशोधनास्रविस्रावणानि कुर्यात्|
ततोऽस्यार्दितप्रोक्तमणुतैलं नस्यमभ्यञ्जनं च|
मधुकामलकमाक्षिकैः केशमूलानि लिम्पेत्|
तिलामलकक्षौद्रतैलैर्वा|
तत्थकाभ्रकम्ब्वस्थिकासीसकिट्टशर्कराभिर्वा|
सैर्यकपुष्पनीलिनीत्रिफलाभृङ्गरजोभिर्वा कृष्णाजमूत्रपिष्टैः|
असनपुष्पपत्रमये पात्रे बहिरामलकीकल्कप्रदिग्धे निहितमक्षतैलं षण्मासं व्रीहिपल्ले स्थितमभ्यङ्गान्नावनात् च पलितं जयति|
अयमेव कल्पः सैरीयकेऽपि|
कपिकच्छूफलमूलगर्भमक्षतैलं सिद्धमयःपात्रे पूर्ववत् स्थितं समानं पूर्वेण|
रामतरणीमूलपलद्वयं यष्टीमधुकपलं सारिवार्धपलमेकत्रजर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेन्द्रियदार्ढ्यावहं च|
कृष्णतिलतिलपर्णीत्रिफलामधुककासीसपद्मककर्दममांसीमार्कवमसनपत्रस्वरसपिष्टं त्रिरात्रमयःपात्रे स्थापयेत्|
ततः पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमप्रलिप्तधौतान् केशान् कपालं च लेपयेत्|
ततः पद्मिनीकर्दमैः प्रच्छाद्य कौशेयेन वेष्टयेत्|
तृतीये चाह्नि प्रक्षाल्यैवमेव कुर्यात्|
एवमलिकुलनीलाः केशाः शिरो विभूषयन्ति||१८||
अकालपलितेष्विति परिणामपलिते रसायनोक्तेरकाल इति विशेषणम्| वातादीनवेक्ष्येति तद्योग्यतया| सुबोधम्|
केशमूलानि केशस्थानानि मधुकादिभिर्लिम्पेत्| तिलादिभिर्वा तुत्थकादिभिर्वा कासीसकिट्टं कासीसत्वक्| सैर्यकपुष्पादिभिर्वा कृष्णाजस्य मूत्रेण पिष्टैः|
असनस्य पुष्पैः पत्रैश्च वर्धिकाकृतिपात्रं कर्तव्यमेतच्च बहिरामलकल्केन तथा प्रदेह्यं यथा तैलाधिकरणतां याति| ततः तस्मिन् पात्रे बिभीतकतैलं निधेयम्| ततस्तत् षण्मासं व्रीहिराशौ स्थाप्यम्| तत्तैलमभ्यङ्गान्नावनाच्च पलितं जयति| अयमेवासनपुष्पपत्रविधिः सैरीयकोपे| सैरीयकं सहचरमाम्लयनं च|
कपिकच्छ्वाः फलानि मूलानि च गर्भं दत्वाऽक्षतैलं सिद्धमयःपात्रे पूर्ववदिति षण्मासं व्रीहिपल्ले स्थितं पूर्वेणासनपात्रस्थिततैलेन गुणैः समानम्|
रामतरण्यादिकं जर्जरीकृत्य दशभिरक्षतैलपलैराप्लुतं लोहपात्रे दशाहमादित्यकिरणैः प्रतप्तं सन्नावनात् पलितघ्नत्वादिगुणम्| रामतरणी सर्यकः|
कृष्णतिलादिकमसनपत्ररसपिष्टमयःपात्रे त्रिरात्रं स्थापयेत्| ततोऽनन्तरमसनपत्ररसद्रुतेन पद्मिनीकर्दमेन प्रलिप्तान् पुनर्धौतान् केशान् पद्मपत्रैः प्रच्छाद्य कौशेयपट्टेन वेष्टयेत्| ततस्तृतीयेऽहनि प्रक्षाल्य पुनरेवमेव लेपादिकं कुर्यात्| एवमित्यनया क्रियया अलिकुलवद् भ्रमरसंहतिवन्नीलाः कचाः शिरो विभूषयन्ति||१८||