श्लेष्मोद्भवेऽमृताक्वथवराकणश्रृतं घृतम्|
विध्येत् सिरां पीतवतो दद्याच्चानुविरेचनम्|
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्|
करञ्जकट्फलवचात्रिफलापञ्चकोलकैः|
सदार्वीकैः पयोयुक्तं सिद्धं तैलं च नावनम्|
शङ्खप्रियङ्गुनैपालीकटुत्रिकफलत्रिकैः|
दृग्वैमल्याय विमला वर्त्तिः स्यात्कोकिला पुनः|
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः|
पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः|
पत्रपीतावराव्योषशिलालनतसैन्धवैः|
मनोह्वाशङ्खसिन्धूत्थमरिचैस्तैमिरं जयेत्|
वर्त्तिः प्रगाढमप्याशु शुक्लपिल्लामयार्म च|
तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः|
पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम्|
पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः|
सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत्|
शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया||१९||
श्लेष्मोद्भवे गुडूच्याः क्वाथेन वराकणाभ्यां च कल्कीकृताभ्यां सिद्धं घृतं पीतवतः सिरां विध्येत्| पश्चाच्च पूगादिजं क्वाथं विरेचनं दद्यात्|
करञ्जादिभिः क्षीरयुतैः सिद्धं तैलं नावनम्| शङ्खादिभिर्वर्त्तिर्नाम्ना विमला दृग्वैमल्याय स्यात्| तथा कृष्णलोहरज आदिभिर्नाम्ना कोकिला| द्विनिशादिभिः पीतख्या वर्त्तिः|
पत्रादिभिः सैन्धवान्तैर्वर्त्तिस्तथा| पीता पीतरोहिणी|
मनोह्वादिभिर्वर्त्तिः प्रगाढं घनमपि तिमिरमाशु हन्ति शुक्रादिकञ्च|
तालीसादिभिः पिष्टैः कल्कीकृतैर्घृतं क्षीरिवृक्षक्वाथे सिद्धं नेत्रतर्पणम्| किणिही कटभ्यपामार्गश्च| अभयमुशीरम्|
जाङ्गलमांसैः सैन्धवपिप्ल्यादिभिर्युक्तैः कल्कितैः पूर्ववत् पुटपाकमाचरेत्|
स्वेदो जलापिष्टैः शिग्रुपत्रैर्मात्रया स्तोकमित्यर्थः| इति श्लेष्मजे तिमिरे|| १९||