शमी / केशहन्त्री पत्रम् - Shami / Keshahantri Patram
Scientific Name: Prosopis spicigera
Hindi Name: झंड / खेज्री / सांग्री / कण्डी / सुम्री / चौंक्रा / जट की पत्ते - Jhand / Khejri / Sangri / Kandi / Sumri / Chaunkra / Jat ki patte
English Name: Indian Mesquite / Khejri Tree - Dry Leaves
Category: Plant Parts
Sub-Category: पत्रम् - Patram - Leaves
Out of Stock
Brief Description
अभिधानमञ्जरी - मदनादिगणवर्ग / असनादिवर्ग
मङ्गल्या च शमी स्यात् पवित्रपत्री च शुंशुनी नीचा | छागप्रिया शमीका तुङ्गतरुः सूक्ष्मपत्रा च ||२१८||
अभिधानरत्नमाला - ६. कषायस्कन्ध
त्रिवृन्मुस्तालोध्रक्रिमिजयुगलं तिन्दुकयुगम् शमी बिल्वा पथ्या कलिशिवसमङ्गायवफल |
शिखाम्बष्ठाजम्बूत्रयनिचुलकासघ्नवरुण प्रपुन्नाटाशोकक्रमुकविकसायाषपुरुषाः ||१||
कुद्दारुकाश्मन्तकसिन्धुपुष्पीशिरीषवन्दाकवराहकर्णी |
जयन्तिकाग्रन्थिलशेलुनेमीश्वेतघ्नसर्जार्जुनकृष्णसाराः ||२||
धवचलदलप्लक्षन्यग्रोधफल्गुसदाफलाःबकुलतिल्वकास्फोटबन्धूकवषणसिध्रकास्तिरकः ...........
पवित्रपत्रा माङ्गल्या शमी स्यात् सूक्ष्मपत्रिका ||१७||
अष्टाङ्गनिघण्टु - २७. विप्रकीर्ण प्रकरण
पवित्रपत्रा मङ्गल्या शमी लक्ष्मी च केशनुत् |
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - ६. वटादिवर्ग
शमी सक्तुफला तुङ्गा केशहन्त्री फला शिवा | मङ्गल्या च तथा लक्ष्मीः शमीरः साऽल्पिका स्मृता ||५९||
शमी तिक्ता कटुः शीता कषाया रेचनी लघुः | कफकासभ्रमश्वासकुष्ठार्शःकृमिजित् स्मृता ||६०||
कैयदेवनिघण्टु - १. ओषधिवर्ग
शमी लक्ष्मी शिवा सीता मङ्गल्या केशहृत्फला | पवित्रपत्रासुफली तुङ्गा सक्तुफला परा ||१०८३||
शमी राशिः शमी भूमिः शमीशानश्च शङ्करः | शमी तिक्ता कट्वनुष्णा कषाया रोचनी लघुः ||१०८४||
निहन्ति कफकुष्ठार्शःश्वासकासभ्रमकृमीन् | तत्फलं स्वादु रूक्षोष्णं मेध्यं केशघ्नपित्तलम् ||१०८५||
धन्वन्तरिनिघण्टु - ५. आम्रादिवर्ग
शमी शङ्कुफला तुङ्गा केशहन्त्री शिवाफला ||९५||
ईशानी शङ्करी लक्ष्मीर्मङ्गल्या पापनाशिनी | शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् ||९६||
निघण्टुशेष - १. वृक्षकाण्ड
शम्यां सक्तुफला लक्ष्मीः शिम्बा तुङ्गाऽग्निपादपः | अजप्रिया भस्मकाष्ठा शङ्करः शिवकीलिका ||७२||
शिवाऽलोमाऽऽयतफला लोम-पामविनाशिनी | मङ्गल्या शुचिपत्रा च .. .. .. |७३|
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
शाम्यत्यस्यां सस्यं शमी; “शमयति दोषान्” इति क्षीरस्वामी, शिवात्वात्, गौरादिवाद् ङीः, तस्याम्| सक्तवः फलान्यस्याः सक्तुफला| लक्ष्मीरिव लक्ष्मीः; लक्ष्यते वा “लक्षेर्मोऽन्तश्च” [हैमोणादिसू. ७१५] इति ईः| “शृधूङ् शब्दकुत्सायाम्” शर्धते अनया शिम्बा, “डी-नी-बन्धि-शृधि-” [हैमोणादिसू. ३२५] इति डिदिम्बः| तुङ्गा उच्चैस्तरत्वात्| अग्नेः पादपोऽग्निपादपः| अजस्य-छागस्य प्रिया अजप्रिया| भस्मसमानं काष्ठमस्याः भस्मकाष्ठा| शं करोति शङ्करः| शिवस्य कीलिकेव शिवकीलिका||७२||
शिवहेतुत्वात् शिवा; शेरते इव दोषा अनेनेति वा, “शीङापो ह्रस्वश्च वा” [हैमोणादिसू. ५०६] इति वः दीर्घस्य ह्रस्वश्च| न विद्यन्ते लोमान्यस्या अलोमा, केशहर्तृफलत्वात्| आयतानि फलान्यस्या आयतफला| ‘लोम-पामविनाशिनी’ इति लोम-पामशब्दाभ्यां विनाशिनीति योज्यते, लोम्नां विनाशिनी लोमविनाशिनी, पाम्नो विनाशिनी पामविनाशिनी| मङ्गले साधुर्मङ्गल्या, “तत्र साधौ” [सिद्ध. ७.१.१५] इति यः| शुचीनि पत्राण्यस्याः शुचिपत्रा| आह च–
शमी सक्तुफला तुङ्गा केशहर्तृफला शिवा| [...] इति|
एतस्या लोके ‘खेजडी’ इति प्रसिद्धिः|
मदनपालनिघण्टु - ५. वटादिवर्ग
शमी तुङ्गा शङ्कुफला पवित्रा केशहृत्फला | लक्ष्मी शिवान्याधिमती भूशमी शङ्गराह्वया ||६४||
शमी शीता लघुः श्वासकुष्ठार्शःकफहृत्सरा | तत्फलं पित्तलं रूक्षं मेध्यं केशविनाशनम् ||६५||
राजनिघण्टु - २. धरण्यादिवर्ग - नक्षत्रवॄक्ष
अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् | पूज्यानायुष्यदांश्चैव वर्धनात्पालनादपि ||४१||
विषद्रु-धात्री-तरु-हेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः | अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाऽम्बष्ठतरुः क्रमेण ||४२||
बिल्वार्जुनौ चैव विकङ्कतोऽथ सकेसराः शम्बरसर्जवञ्जुलाः | सपानसार्काश्च शमीकदम्बास्तथाऽऽम्रनिम्बौ मधुकद्रुमः क्रमात् ||४३||
अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः | अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ||४४||
यस्त्वेतेषामात्मजन्मर्क्षभाजां मर्त्यः कुर्याद् भेषजादीन्मदान्धः | तस्यायुष्यं श्रीकलत्रञ्च पुत्रो नश्यत्येषा वर्धते वर्धनाद्यैः ||४५||
आचार्योक्तौ स्फुटमथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिदपि तथाऽन्यत्र तन्त्रान्तरेषु |
ज्ञात्वाऽपीह प्रथितभिषजां नातिदृष्टोपयोगं नैवास्माभिर्विशदितमिदं गौरवाद्ग्रन्थभीतेः ||४६||
राजनिघण्टु - ८. शाल्मल्यादिवर्ग
शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी |
हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ शापापशमनी ||३३||
भद्राऽथ शङकरी ज्ञेया केशहन्त्री शिवाफला | सुपत्रा सुखदा चैव पञ्चविंशाभिधा मता ||३४||
शमी रूक्षा कषाया च रक्तपित्तातिसारजित् | तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ||३५||
राजनिघण्टु - ८. शाल्मल्यादिवर्ग
शमीविशेष (शान्ता)
द्वितीया तु शमी शान्ता शुभा भद्राऽपराजिता | जया च विजया चैव पूर्वोक्तगुणसंयुता ||३६||
लघुनिघण्टु
शम्यां शिवा शाङ्करी केशहन्त्री लक्ष्मीः तथा पापहरा सुतुङ्गा |
शमीफलं गुरु स्वादु केशघ्नं चातिसारजित् ||२०६||
शब्दचन्द्रिका - १. वृक्षादिवर्ग
अल्पा शमी शमीरः स्यात्, शमी सक्तुफला शिवा |
वह्निगर्भा काननारिर्वशिनी ब्रह्मचारिणी ||६८||
सरस्वतीनिघण्टु - १. महावृक्षवर्ग
भस्मगर्भा सूर्यपुत्रा शमी शक्तुफला शिवा |५०|
सिद्धमन्त्र - ३. कफघ्नवर्ग
कफघ्नं शालरोहीतच्छागकर्णांश्वकर्णकाः ||४०||
शमीकदम्बबदरीशिंशिपाकर्णिकारिकाः | हरिद्रकोऽरिमेदश्च तिलकः कटभीङ्गुदः ||४१||
मदनस्तुवरश्चैव धत्तूरः केतकी तथा | कोशातकी देवदाली काकतुण्ड्याखुकर्णिका ||४२||
नन्दिकामुकमञ्जिष्ठास्वरसीपर्वपुष्पिकाः | विष्णुक्रान्ता धनहरी लताकस्तूरिका त्रुटि ||४३||
कर्पूरो जातिपत्री च कुलत्थी काककुष्ठकम् | शिलापुष्पं तुत्थकं च शिलाजतु मनःशिला ||४४||
शाल्यादि दग्धभूम्युत्थमोदनो भृष्टतण्डुलैः | वाटो धाना यवापूपा उलुकक उलुम्बुकः |
यूषो गजाश्वोष्ट्रघृतं मन्थो द्राक्षामधुप्लुतः ||४५||
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
शालो रालवृक्षः, रोहीतो रोहेण्डकः, छागकर्णः कुशरीरः, अश्वकर्णः सस्यसम्वरः एन इति प्रसिद्धः| शमीः सक्तुफला, कुत्सिताम्बः कदम्बः, बदरी कोली, शिंशपा कृष्णसारः, कर्णिकारिका कर्णिकारद्रुमः, हरिद्रकः प्रसिद्धः, अरिमेदोऽहिमारः, तिलकः स्त्रीवीक्षणदोहदः, कटभी किणही, इङ्गुदस्तापसतरुः| मदनो गालवृक्षः, तुवरः–
“पत्रैस्तु बकुलाकांरः कलायसदृशः फलैः||
वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः||”
इत्युक्तः| धत्तूरः उन्मत्तः, केतकी प्रसिद्धा, कोशातकी धामार्गवः, देवदाली जीमूतकः, काकतुण्डी काकनासा, आखुकर्णी मूषकपर्णी| नदीकामुकः प्राचीबलः, मञ्जिष्ठा योजनवल्ली, स्वरसी कपित्थपर्णी, पर्वपुष्पिका नागदन्ती, विष्णुक्रान्ता प्रसिद्धा, धनहरी चण्डी| लताकस्तूरिका प्रसिद्धा, त्रुटिः सूक्ष्मैला| कर्पूरो घनसारः, जातिपत्री जातिकोशः, कुलत्था वनकुलत्थः, काककुष्ठकं कङ्कुष्ठं, शिलापुष्पं शैलेयं, तुत्थकं मयूरग्रीवं, शिलाजतु गिरिजम्|
शाल्यादि दग्धभूम्युत्थं दग्धायां भुवि जातं शाल्यादि धान्यं, ओदनो भृष्टैस्तण्डुलैः सिद्धः, वाट्यो दलितगोधूमादिकृत ओदनः, भृष्टयवौदनं इत्येके; धाना भृष्टयवाः, यवाम्पूपा यवकृतमण्डकाः| उलूकको भृष्टहरितधान्यशिम्बः, उलुम्बिका भृष्टशूकधान्यजः, यूषो व्याख्यातः| गजाश्वोष्ट्रघृतं गजाश्वोष्ट्रसम्भवं घृतम्, मन्थो द्राक्षामधुप्लुतः द्राक्षारसमाक्षिकाभ्यामालोडितो मन्थः| एतत्सर्वं कफघ्नम्||४०-४५||
सिद्धमन्त्र - ८. दोषलवर्ग - पित्तल द्रव्य
पित्तलं तु फलं शम्या मांसं तैलविपाचितम् ||१५३||
व्रीहिश्च महदाद्यन्यः ............ |१५४|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
फलं शम्याः शमीफलं, मासं तैलविपाचितं तैलसिद्धं मासम्| व्रीहिश्च महदाद्यन्यः महदादिगन्धनान्तेभ्यो व्रीहिभ्योऽन्यो व्रीहिः| एतत्त्रयं पित्तकरम्||१५३||
गुणसङ्ग्रह (द्वितीय भाग) - ५. आम्रादिवर्ग
शेलुकोलीशमीनां त्वक् पित्तरक्तातिसारनुत् ||५०२||
शमीफलं गुरु स्वादु रूक्षोष्णं नखकेशनुत् |
सौश्रुतनिघण्टु - ३५. प्रकीर्णगण
शमी पवित्रपत्रा च बिम्बिरी बहुकण्टकी | अजप्रिया सूक्ष्मपत्रा मङ्गल्या च प्रकीर्तिता ||२९१||
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|